SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ इदानीं मनःपर्यायज्ञानं, लब्धिनिरूपणायां तत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपश्चक| क्रमायातमभिधित्सुराह— पज्जवनाणं पुण जणमणपरिचिन्तियत्थपायडणं । माणुसखित्तनिबद्धं गुणपञ्चइयं चरित्तवओ ॥ ७६ ॥ व्याख्या- ' मनःपर्यायज्ञानं' प्राकूनिरूपितशब्दार्थ, पुनःशब्दो विशेषणार्थः, इदं हि रूपिनिबन्धनक्षायोपशमिकप्रत्यक्षादिसाम्येऽपि सति अवधिज्ञानात् स्वाम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह - जायन्त इति जैनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः जनमनःपरिचिन्तितश्चासावर्थश्चेति समासः, तं प्रकटयति प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, मानुषक्षेत्रं - अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धं, न तद्बहिर्व्यवस्थितप्राणिमनः परिचिन्तितार्थविषयं प्रवर्त्तत इत्यर्थः । गुणाः- क्षान्त्यादयः त एव प्रत्ययाः - कारणानि यस्य तद्गुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति - अप्रमत्तसंयतस्य आमश षध्यादिऋद्धिप्राप्तस्यैवेति गाथार्थः ॥ ७६ ॥ इदं द्रव्यादिभिर्निरूप्यते - तत्र द्रव्यतो मनःपर्यायज्ञानी अर्धतृतीयद्वीपसमुद्रान्तर्गतप्राणिमनोभावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनःपर्यायज्ञानिनमधिकृत्यैवं, अन्यथा जानात्येव न पश्यति, अथवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शनमिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोक्तं चतुर्धा विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासंख्येयभागं १ आदिना छद्मस्थस्वामिसाधर्म्यम् २ भेदवदित्यर्थः ३ योगरूढतया नरा एव स्युः परं संज्ञिपञ्चेन्द्रियग्रहणायैवं व्युत्पादनं * ०पागडणं. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy