SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥ ४२ ॥ अर्चिता ये ते तथा तान्, पाठान्तरेण 'तिलकरत्नार्द्धचन्द्र चित्रान्' नानामणिमयदामालङ्कृतान् अन्तर्बहिश्र लक्षणान्मसृणान् तपनीयस्य या रुचिरा वालुका तस्याः प्रस्तरः- प्रतरः प्राङ्गणेषु येषां ते तथा तान्, सुखस्पर्शान् सश्रीकाणिसशोभनानि रूपाणि - रूपकाणि येषु ते तथा तान्, प्रसादीयान् -चित्ताह्लादकान् दर्शनीयान् - यान् पश्यच्चक्षुर्न श्राम्यति, अभिरूपान्- मनोज्ञरूपान् द्रष्टारं द्रष्टारं प्रति रूपं येषां ते तथा तान्, एकं महद्भवनमिति, अथ भवनप्रासादयोः को विशेषः ?, उच्यते, भवनमायामापेक्षया किञ्चिदन्यूनोच्छ्रायमानं भवति, प्रासादस्तु आयामद्विगुणोच्छ्राय इति, अनेकेषु स्तम्भशतेषु संनिविष्टं यत्तत्तथा, लीलया स्थिताः शालभञ्जिकाः - पुत्रिका यस्मिन् तत्तथा, अभ्युद्गता - सुकृता वज्रस्य वेदिका - द्वारमुण्डिकोपरि वेदिका तोरणं च यत्र तत्तथा, वराभिः रचिताभी रतिदाभिर्वा शालभञ्जिकाभिः सुश्लिष्टाः संबद्धा: विशिष्टा लष्टाः संस्थिताः प्रशस्ताः वैडूर्यस्य स्तम्भा यत्र तत्तथा, नानामणिकनकरत्त्रैः खचितं च उज्ज्वलं च यत्तत्तथा ततः पदत्रयस्य कर्मधारयः, 'बहुसम' त्ति अतिसमः सुविभक्तो निचितो - निविडो रमणीयश्च भूभागो यत्र तत्तथा, ईहामृगवृषभतुरगनरमकरविहगव्यालकिन्नर रुरुसर भचमरकुञ्जरवनलतापद्मलताभक्तिचित्रमिति यावत्करणात् दृश्यं, तथा स्तम्भोद्गतया - स्तम्भोपरिवर्तिन्या वज्रस्य वेदिकया परिगृहीतं - परिवेष्टितमभिरामं च यत्तत्तथा 'विज्जाहरजमलजुयलजंतजुत्तं 'ति विद्याधरयोर्यत् यमसमश्रेणीकं युगलं- द्वयं तेनैव यत्रेण - संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तं यत्तत्तथा आर्षखाचैवंविधः समास इति, तथा अर्चिषां - | किरणानां सहस्रैर्मालनीयं - परिवारणीयं 'भिसमाणं'ति दीप्यमानं 'भिन्भिसमाणं' ति अतिशयेन दीप्यमानं चक्षुः कर्तृ लोकने| अवलोकने दर्शने सति लिशतीव- दर्शनीयखातिशयात् श्लिष्यतीव यत्र तत्तथा, नानाविधाभिः पञ्चवर्णाभिर्घण्टाप्रधान पताकाभिः Jain Education International For Personal & Private Use Only १ उत्क्षिप्त ज्ञाता० मेघवृत्तं सू. २१ ॥ ४२ ॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy