SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सेधयति निष्पादयति शिक्षयति-अभ्यासं कारयति 'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिकैका खगेका मनश्चैकं सुप्तानीव सुप्तानि-बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यवहारभाष्ये-'सोसाई नव सुत्ता'इत्यादि, अष्टादश विधिप्रकाराः-प्रवृत्तिप्रकाराः अष्टादशभिर्वा विधिभिःभेदैः प्रचार:-प्रवृत्तिर्यस्याः सा तथा तयां, देशीभाषायां-देशभेदेन वर्णावलीरूपायां विशारदः-पण्डितो यः स तथा, गीतिरतिगंधर्वे-गीते नाव्ये च कुशलः, हयेन युध्यत इति हययोधी, एवं रथयोधी बाहुयोधी बाहुभ्यां प्रमृद्गातीति बाहुप्रमर्दी, साहसिकलाद्विकाले चरतीति विकालचारी । 'पासायवडिंसए'त्ति अवतंसका इवावतंसकाः शेखराः प्रासादाश्च तेऽवतंसकाश्च प्रासादावतंसका प्रधानप्रासादा इत्यर्थः अन्भुग्गयमूसिय'त्ति अभ्युद्गतोच्छ्रितान् अत्युच्चानित्यर्थः, अत्र च द्वितीयाबहुवचनलोपो दृश्यः, 'पहसिएविव'त्ति प्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः, तथा मणिकनकरत्नानां भक्तिभिः-विच्छित्तिमिश्चित्रा येते तथा वातोद्भूता याः विजयसूचिका वैजयन्त्यभिधानाः पताकाः छत्रातिच्छत्राणि च तैः कलिता ये ते तथा ततः कर्मधारयस्ततस्तान् , तुङ्गान् कथमिव ?-गगनतलमभिलयच्छिखरान् 'जालंतररयणपंजरुमिल्लिय'ति जालान्तेषुमत्तालम्बपर्यन्तेषु जालान्तरेषु वा-जालकमध्येषु रत्नानि येषां ते तथा ततो द्वितीयाबहुवचनलोपो दृश्यः पञ्जरोन्मीलितानि च-पृथक्कृतपञ्जराणि च प्रत्यग्रच्छायानित्यर्थः, अथवा जालान्तररत्नपञ्जरैः-तत्समुदायविशेषैरुन्मीलितानीवोन्मीलितानि चोन्मीपितलोचनानि चेत्यर्थः, मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान्, तिलकैः-पुण्ड्रैः रत्नैः-कर्केतनादिभिः अर्द्धचन्द्रः-सोपानविशेषैः भित्तिषु वा-चन्दनादिमयैरालेख्यैः छल Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy