________________
सर्वविभूषया' समस्तशोभया 'सर्वसंभ्रमेण' प्रमोदकृतौत्सुक्येन सर्वपुष्पगन्धमाल्यालङ्कारेण 'सर्वतूर्यशब्दसंनिनादेन' तूर्यशब्दानां मीलनेन यः संगतो नितरां नादो-महान् घोषस्तेनेत्यर्थः, अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिदृष्टा अत आह 'महया इड्डीए महया जुईए जुत्तीए वा महया बलेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं' 'यमकसमक' युगपत्, एतदेव विशेषेणाह-संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुहिनिग्योसनाइयरइवेणं' तत्र शङ्खादीनां नितरां घोषो निर्घोषो-महाप्रयत्नोत्पादितः शब्दो नादितं-ध्वनिमात्रमेतद्वयलक्षणो यो वः स तथा तेन, 'सिंघाडे'त्यादि, सिंघाडकादीनामयं विशेषः, सिंघाडकं-जलजबीजं फलविशेषः तदाकृतिपथयुक्तं स्थानं सिंघाटकं, त्रिपथयुक्तं स्थानं त्रिकं चतुष्पथयुक्तं चतुष्कं त्रिपथभेदि चखरं चतुर्मुखं-देवकुलादि महापथो-राजमार्गः पथः-पथमात्र, तथा आसिक्तं-गन्धोदकेनेषत्सितं सकृद्वा सिक्तं सिक्तं खन्यथा शुचिकं-पवित्रं संमार्जितम्-अपहृतकचवरं उपलितं च गोमयादिना यत्तत्तथा यावत्करणादुपस्थानशालावर्णकः पूर्वोक्त एव वाच्यः, एवंभूतं नगरमवलोकयन्त्यो गुच्छा वृन्ताकीप्रभृतीनां लताः सहकारादिलता वृक्षाः सहकारादयः गुल्मा वंशीप्रभृतयः वल्यः त्रपुष्यादिकाः एतासां ये गुच्छा:-पल्लवसमूहास्तै यत् 'ओच्छवियंति अवच्छादितं वैभारगिरेर्येः कटका:-देशास्तेषां ये पादा-अधोभागास्तेषां यन्मूलं| समीपं तत्तथा तत्सर्वतः समन्तात् 'आहिंडन्तित्ति आहिण्डन्ते, अनेन चैवमुक्तव्यतिकरभाजां सामान्येन स्त्रीणां प्रशंसाद्वा-18 रेणात्मविषयोऽकालमेघदोहदो धारिण्याः प्रादुरभूदित्युक्तं, वाचनान्तरे तु 'ओलोएमाणीओ २ आहिंडेमाणीओ २ डोहलं विणिंति' विनयन्त्यपनयन्तीत्यर्थः, 'तं जति णं अहमवि मेहेसु अन्भुग्गएसु जाव डोहलं विणेजामि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org