________________
ज्ञाताधर्मकथाङ्गम्
॥२७॥
कटकानि च खुड्डकानि च एकावली च-विचित्रमणिकृता एकसरिका कण्ठमुरजश्व-आभरणविशेषः त्रिसरकं च वरवलयानि १उत्क्षिप्तच हेमसूत्रकं च-संकलकं यासां तास्तथा, तथा कुण्डलोद्योतिताननास्ततो वरपादप्राप्तनपुरादीनां कर्मधारयः रत्नविभूषिताङ्ग्यः
ज्ञाताध्य. नासानिःश्वासवातेनोह्यते यल्लघुखात्तत्तथा चक्षुहरं दृष्ट्याक्षेपकखात्, अथवा प्रच्छादनीयाङ्गदर्शनाचक्षुर्हरति धरति वा निवर्तयति अकालमेयावखात्तत्तथा, वर्णस्पर्शसंयुक्तं वर्णस्पर्शातिशायीत्यर्थः हयलालाया-अश्वलालायाः सकाशात् 'पेलव'त्ति पेलवलेन मृदु- घदोहदः खलघुखलक्षणेनातिरेक:-अतिरिक्तवं यस्य तत् तथा धवलं च तत् कनकेन खचितं-मंडितमन्तयोः-अश्चलयोः कर्म वान-12 सू. १३ लक्षणं यस्य तत्तथा तच्चेति वाक्यं, आकाशस्फटिकस्य सदृशी प्रभा यस्य धवलखात्तत्तथा, अंशुकं-वस्त्रविशेष प्रवरमिहानुस्वारलोपो दृश्यः परिहिताः-निवसिताः दुकूलं च-वस्त्रं अथवा दुकूलो-वृक्षविशेषः तद्वल्कलाज्जातं दुकूलं-वस्त्रविशेष एव तत् सुकुमालमुत्तरीयम्-उपरिकायाच्छादनं यासा तास्तथा, सर्वर्तुकसुरभिकुसुमैः प्रवरैमाल्यैश्च-प्रथितकुसुमैः शोभितं शिरो यासां तास्तथा, पाठान्तरे 'सर्वर्तुकसुरभिकुसुमैः सुरचिता प्रलम्बमाना शोभमाना कान्ता विकसन्ती चित्रा माला यासा तास्तथा, एवमन्यान्यपि पदानि बहुवचनान्तानि संस्करणीयानि, इह वर्णके बृहत्तरो वाचनाभेदः, तथा चन्द्रप्रभवैरवैडूर्यविमलदण्डाः शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशाश्च ये चखारश्चामरा:-चामराणि तद्वालैीजितमङ्गं यासां तास्तथा, अयमेवार्थों वाचनान्तरे इत्थमधीतः 'सेयवरचामराहिं उद्धबमाणीहिं' २ 'सचिड्डीए'त्ति छत्रादिराजचिह्नरूपया,
॥२७॥ इह यावत्करणादेवं द्रष्टव्यं 'सबज्जुइए' सर्वद्युत्या-आभरणादिसंबन्धिन्या सर्वयुक्त्या वा-उचितेष्टवस्तुघटनालक्षणया 'सर्वबलेन' सर्वसैन्येन 'सर्वसमुदायेन पौरादिमीलनेन 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण 'सर्वविभूत्या' सवेसंपदा
Jain Educatiorialonal
For Personal & Private Use Only
www.jainelibrary.org