________________
उपवनेषु - भवनासन्नवनेषु, तथा परभृतानां - कोकिलानां यद्रुतं -खो रिभितं खरघोलनावत्तेन संकुलानि यान्युपवनानि तानि तथा तेषु, 'उद्दाईत'त्ति शोभमाना रक्ता इन्द्रगोपकाः - कीटविशेषाः स्तोककानां चातकानां कारुण्यप्रधानं विलपितं च येषु तानि तथा तेषूपवनेष्वित्यन्वयः, तथा अवनत तृणैर्मण्डितानि यानि तानि तथा तेषु, दर्दुराणां प्रकृष्टं जल्पितं येषु तानि तथा तेषु, संपिण्डिता-मिलिताः हप्ता - दर्पिताः भ्रमराणां मधुकरीणां च 'पहकर'त्ति निकरा येषु तानि तथा, 'परिलिन्त त्ति परिलीयमानाः संश्लिष्यन्तो मत्ताः षट्पदाः कुसुमासवलोला :- मकरन्दलम्पटाः मधुरं-कलं गुञ्जन्तः शब्दायमानाः देशभागेषु येषां तानि तथा ततः कर्मधारयः ततस्तेषु उपवनेषु तथा परिश्यामिताः - कृष्णीकृताः सान्द्रमेघाच्छादनात् पाठान्तरेण परिभ्रामिताः - कृतप्रभाभ्रंशाः चन्द्रसूरग्रहाणां यस्मिन् प्रनष्टा च नक्षत्रतारकप्रभा यस्मिंस्तत्तथा तस्मिन्नम्बरतले इति योगः, इन्द्रायुधलक्षणो बद्ध इव बद्धः चिह्नपट्टो-ध्वजपटो यस्मिंस्तत्तथा तत्राम्बरतले - गगने उड्डीनबलाकापङ्किशोभमानमेघवृन्देऽम्बरतले इति योगः, तथा कारण्डकादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ते - उक्तलक्षणयोगेन समागते प्रावृषि काले, किंभूता अम्मयाओ ! इत्याह- 'व्हायाओ' इत्यादि, किं ते इति किमपरमित्यर्थः, वरौ पादप्राप्तनूपुरौ मणिमेखलारत्नकाञ्ची हारश्च यासां तास्तथा रचितानि - न्यस्तानि उचितानि - योग्यानि कटकानि-प्रतीतानि खुड्डकानि चअङ्गुलीयकानि यासां तास्तथा विचित्रैर्वरवलयैः स्तम्भिताविव स्तम्भितौ भुजौ यासां तास्तथा ततः पदत्रयस्य कर्मधारयः । “कुंडलोजोतितानना वरपायपत्तनेउरमणिमेहलाहाररइयउचियकडगखुड्डयएगावलिकंठमुरयतिसरयवरवलयहेमसुत्तकुंडलुज्जोवियाणणाओ" ति पाठान्तरं तत्र वरपादप्राप्तनपुरमणिमेखलाहारास्तथा रचितान्युचितानि
तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org