SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रतीतमेव यस्य स तथा, पालम्बो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरण विशेषेण सुष्ठ कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परिहितानि || अवेयकामुलीयकानि येन स तथा, तथा ललिताङ्गके अन्यान्यपि ललितानि कृतानि-न्यस्तानि आभरणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, तथा नानामणीनां कटकत्रुटिकैः-हस्तबाहाभरणविशेषबहुखात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीका-सशोभो यः स तथा, कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्क: हारेणावस्तृतम्-आच्छादितं तेनैव सुष्ट कृतरतिकं वक्षः-उरो यस्यासौ हारावस्तृतसुकृतरतिकवक्षाः, मुद्रिकापिङ्गलाङ्गुलीक:-मुद्रिका-अङ्गल्याभरणानि ताभिः पिङ्गलाःकपिला अङ्गुलयो यस्य स तथा, प्रलम्बेन-दीर्पण प्रलम्बमानेन च सुष्टु कृतं पटेनोत्तरीयम्-उत्तरासङ्गो येन स तथा, नानामणिकनकरत्नैर्विमलानि महार्हाणि-महाणि निपुणेन शिल्पिना 'उविय'त्ति परिकर्मितानि 'मिसिमिसंत'त्ति दीप्यमानानि यानि विरचितानि-निर्मितानि सुश्लिष्टानि सुगन्धीनि विशिष्टानि-विशेषवन्त्यन्येभ्यो लष्टानि-मनोहराणि संस्थितानि प्रशस्तानि च। आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाऽसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना, वर्णितेनेति शेषः, कल्पवृक्ष इव सुष्टु अलकृतो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो राजा तु मुकुटादिभिरलङ्कतो विभूषितस्तु वस्त्रादिभिरिति, सह कोरण्टकमरधानैर्माल्यदामभिर्यच्छत्रं तेन ध्रियमाणेन, कोरण्टक:-पुष्पजातिः, तत्पुष्पाणि मालान्तेषु शोभार्थ दीयन्ते, मालायै हितानि- माल्यानि-पुष्पाणि दामानि-माला इति, चतुर्णा चामराणां प्रकीर्णकानां वालैवींजितमङ्गं यस्येति वाक्यं, मङ्गलभूतो जयशब्दः dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy