________________
ज्ञाताधर्म
कथाङ्गम्.
॥२२॥
तथा तैः, छेकैः-अवसरतैर्द्विसप्ततिकलापण्डितैरिति च वृद्धाः, दक्षैः-कार्याणामविलम्बितकारिभिः प्रष्टैः-वाग्मिभिरिति वृद्ध-IN उत्क्षिव्याख्या, अथवा प्रष्टैः-अग्रगामिभिः कुशलैः-साधुभिः संबाधनाकर्मणि मेधाविभिः-अपूर्वविज्ञानग्रहणशक्तिनिष्ठैः निपुणैः- ताध्ययने क्रीडाकुशलैनिपुणशिल्पोपगतैः-निपुणानि-मूक्ष्माणि यानि शिल्पानि-अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा स्वप्नफलम् तैर्जितपरिश्रमैः, व्याख्यान्तरं तु छेकैः-प्रयोग दक्षैः-शीघ्रकारिभिः 'पत्तद्देहिंति प्राप्ताथैरधिकृतकर्मणि निष्ठां गतैः कुशलैः-18 आलोचितकारिभिः मेधाविभिः-सकृच्छृतदृष्टकर्मः निपुणैः-उपायारम्भिभिः निपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभ्यङ्गनपरिमर्दनोद्वलनानां करणे ये गुणास्तेषु निर्मातैः, अस्थां सुखहेतुखादस्थिसुखा तया 'संवाहनयेति विश्रामणया अप-18 गतपरिश्रमः 'समंतजालाभिरामेत्ति समन्तात-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवद्हावयव विशेषरभिरामो-रम्यो यः स्नानमण्डपः स तथा, पाठान्तरे 'समत्तजालाभिरामेति तत्र समस्तैर्जालकैरभिरामो यः स तथा, पाठान्तरेण 'समुत्तजालाभिराम' सह मुक्ताजालौं वर्ततेऽभिरामश्च स तथा तत्र, शुभोदकैः-पवित्रस्थानाहृतैः गन्धोदकैः-श्रीखण्डादिमित्रैः पुष्पोदकैः-पुष्परसमित्रैः शुद्धोदकैश्च खाभाविकैः, कथं मजित इत्याह-'तत्र' स्नानावसरे यानि कौतुकशतानि रक्षादीनि तैः 'पक्ष्मले'त्यादि पक्ष्मला-पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना कापायिका-कषायरक्ता शाटिका तया लूषितमङ्गं यस्य स] तथा, अहतं-मलमूषिकादिभिरनुपद्रुतं प्रत्यग्रमित्यर्थः, सुमहाघ दृष्यरत्न-प्रधानवस्त्रं तेन सुसंवृतः-परिगतस्तद्वा सुष्टु संवृतं-परि-17
॥२२॥ हितं येन स तथा, शुचिनी-पवित्रे माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुङ्कुमादि विलेपनं यस्य स तथा, आविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः त्रिसरिकं च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org