SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अवतरणं तेन प्रारब्धम्-आरब्धमभिभवितुमिति गम्यते अपराद्धं वा-विनाशितं दिनकरपरम्परावतारप्रारब्धं तसिन् सति, इहा च तस्येति सापेक्षत्वेऽपि समासः, तथा दर्शनादन्धकारे-तमसि तथा बालातप एव कुङ्कुमं तेन खचिते इव जीवलोके साति, तथा लोचनविषयस्य-दृष्टिगोचरस्य योऽणुयासोत्ति-अनुकाशो विकाशः प्रसर इत्यर्थस्तेन विकसंचासौ वर्द्धमानो विशदश्चस्पष्टः स चासौ दर्शितश्चेति लोचनविषयानुकाशविशददर्शितस्तसिन्, कस्मिन्नित्याह-लोके अयमभिप्रायः-अन्धकारस्य क्रमेण हानौ लोचनविषयविकाशः क्रमेणैव भवति स च विकसन्तं लोकं दर्शयत्येव, अंधकारसद्भावे दृष्टेरप्रसरणे लोकस्य संकीर्णस्येव । (प्रतिभासनादिति, तथा कमलाकरा-इदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां बोधको यः तस्मिन् उत्थिते-उदयानन्तरावस्थावाप्ते 'सूरे' आदित्ये किंभूते ?-सहस्ररश्मौ तथा 'दिनकरे' दिनकरणशीले तेजसा ज्वलति सतीति । 'अट्टणसाल'त्ति अट्टनशाला व्यायामशालेत्यर्थः, अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनं च-उल्ललनं व्यामर्दनं च-परस्परेण वाहाद्यङ्गमोटनं मल्लयुद्धं च-प्रतीतं करणानि च-बाहुभङ्गविशेषा मल्लशास्त्रप्रसिद्धानि तैः श्रान्तः सामान्येन परिश्रान्तो अङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृखो यत्पर्क शतेन वा कार्षापणानां यत्पकं तच्छतपक्कमेवमितरदपि सुगन्धिवरतैलादिभिरभ्यंगैरिति योगः आदिशब्दात् घृतकर्पूरपानीयादिग्रहः किम्भूतैः-'प्रीणनीयैः' रसरुधिरादिधातुसमताकारिभिर्दापनीयैः-अग्निजननैः दर्पणीयैः-बलकरैः मदनीयैः-मन्मथबृहणीयासोपचयकारिभिः सर्वेन्द्रियगात्रप्रह्लादनीयैः अभ्यंगैः-स्नेहनैः अभ्यंगः क्रियते यस्य सोऽभ्यङ्गितः सन् , ततस्तैलचर्मणि-तैलाभ्यक्तस्य संबाधनाकरणाय यच्चर्म तत्तैलचर्म तस्मिन् संवाहिते 'समाणे'त्ति योगः, कैरित्याह ?-पुरुषैः, कथम्भूतैः ?-प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानि तलानि-अधोभागा येषां ते - Jain Education International For Personal & Private Use Only ainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy