SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. ॥२२२॥ १६ अमरकङ्काज्ञा. कृष्णकपि|लयोःश-. ब्दसंमेल: सू. १२५ रमलयाभिधानौ यौ गिरी तयोर्यानि शिखराणि तत्सम्बन्धिनो ये केसरचामरवाला:-सिंहस्कन्धचमरपुच्छकेशाः अर्द्धचन्द्राश्च तल्लक्षणानि चिह्नानि यत्र तत्तथा, 'कालहरियरत्तपीयसुकिल्लबहुण्हारुणिसंपिनद्धजीयं' कालादिवर्णाः या स्नायवः-शरीरान्तर्व- र्धास्ताभिः सम्पिनद्धा-बद्धा जीवा-प्रत्यश्चा यस्य तत्तथा 'जीवियान्तकरति शत्रूणामिति गम्यते, 'संभग्गे'त्यादि, सम्भनानि प्राकारो गोपुराणि च-प्रतोल्यः अट्टालकाश्च-प्राकारोपरिस्थानविशेषाः चरिका च-नगरप्राकारान्तरेऽष्टहस्तो मार्गः तोरणानि च यस्यां सा तथा, पर्यस्तितानि-पर्यस्तीकृतानि सर्वतः क्षिप्तानि इत्यर्थः प्रवरभवनानि श्रीगृहाणि च-भाण्डागाराणि यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः, 'सरसरस्स'त्ति अनुकरणशब्दोऽयमिति, 'उल्लपडसाडए'त्ति सद्यःस्नानेन आद्रौं-पट्टशाटको उत्तरीयपरिधाने यस्य स तथा, 'अवचूलगवत्थनियत्थे'त्ति अवचूलं-अधोमुखचूलं मुत्कलाश्चलं यथा भवतीत्येवं वस्त्रं निवसितं येन स तथा, 'तं एवमवि गए नत्थि ते ममाहितो इयाणिं भयमस्थिति तत-तस्मादित्थमपि गते अस्मिन् कार्ये नास्ति अयं पक्षो यदुत ते-तव मत्तो भयमस्ति-भवति । तेणं कालेणं २ धायतिसंडे दीवे पुरच्छिमद्धे भारहे वासे चंपा णामं णयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कविले णामं वासुदेवे राया होत्था, महया हिमवंत. वण्णओ, तेणं कालेणं २ मुणिसुचए अरहा चंपाए पुण्णभद्दे समोसढे, कपिले वासुदेवे धम्मं सुणेति, तते णं से कविले वासुदेवे मुणिमुव्वयस्स अरहतो धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसई सुणेति, तते णं तस्स कविलस्स. ॥२२२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy