________________
नो पउमनाभे रायत्तिकट्टु' वयमेवेह रणे जयामो न पद्मनाभो राजेति, यदि स्वविषये विजयनिश्चयं कृत्वा पद्मनाभेन सार्द्धं योद्धुं सम्प्रालगिष्यथ ततो न पराजयं प्राप्स्यथ, निश्वयसारखात् फलप्राप्तेः, आह च - " शुभाशुभानि सर्वाणि, निमित्तानि स्युरेकतः । एकतस्तु मनो याति, तद्विशुद्धं जयावहम् ॥ १ ॥ तथा स्यान्निश्वयैकनिष्ठानां कार्यसिद्धिः परा नृणाम् । संश यक्षुण्णचित्तानां कार्ये संशीतिरेव हि ॥ २ ॥” शङ्खविशेषणानि कचिद् दृश्यन्ते - 'सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं' 'तणसोल्लियन्ति मल्लिका सिंदुवारो - निर्गुण्डिः, 'निययस्स बलस्स हरिसजणणं रिउसेण्णविणासकरं पंचजण 'न्ति पाञ्चजन्याभिधानं 'वेढो 'ति वेष्टकः एकवस्तुविषया पदपद्धतिः, स चेह धनुर्विषयो जम्बुद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः, तद्यथा - 'अइरुग्गयवालचंद इंदधणुसन्निकास' अचिरोद्गतो यो बालचन्द्रः - शुक्लपक्षद्वितीयाचन्द्रः | तेनेन्द्रधनुषा च वक्रतया सनिकाशं सदृशं यत्तत्तथा 'वरमहिसदरियदप्पियदढघणसिंगग्गरइयसारं ' वरमहिषस्य दृप्तदर्पितस्यसञ्जातदर्पातिशयस्य यानि दृढानि घनानि च शृङ्गाग्राणि तै रचितं सारं यत्तत्तथा, 'उरगवरपवरगवलपवरपर हुयभ मरकुलनीलधंतधोयपट्टे उरगवरो- नागवरः प्रवरगवलं- वरमहिषशृङ्गं प्रवरपरभृतो वरकोकिलो भ्रमरकुलं - मधुकरनिकरो नीली-गुलिका एतानीव स्निग्धं कालकान्तिमत् ध्मातमिव धमातं च- तेजसा ज्वलत् धौतमिव धौतं च-निर्मलं पृष्ठं यस्य तत्तथा, 'निउणोवि - | यमिसिमिसितमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन शिल्पिना ओपितानां - उज्ज्वलितानां मणिरत्नवण्टिकानां यजालं तेन परिक्षिप्तं - वेष्टितं यत्तत्तथा 'तडितरुण किरणतवणिजबद्धचिंधं' तडिदिव - विद्युदिव तरुणाः - प्रत्यग्राः किरणा यस्य तत्तथा तस्य तपनीयस्य सम्बन्धीनि बद्धानि चिन्हानि - लान्छनानि यत्र तत्तथा 'दद्दरमलयगिरिसिहरकेसरचामरवालयद्ध चंदबिंब' दर्द
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org