________________
मुद्धाणं धरणीतलंसि निवेसेइ-निवेशयतीत्यर्थः, 'ईसिं पच्चुन्नमति २ करतलपरिग्गहियं अंजलिं मत्थए कट्ट एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं वंदति नमंसति २ जिणघराओ पडिनिक्खमईत्ति तत्र वन्दते चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति पश्चात् प्रणिधानादियोगेनेति वृद्धाः, न च द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं, चरितानुवादरूपखादस्य, न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा मूरिकामादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामचनं श्रूयते इति तदपि विधेयं स्यात् , किश्च-अविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते, यतो वन्दते नमस्सतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता-"विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः, ततो. वन्दते सामान्येन नमस्करोति आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणे"ति किञ्च-समणेण सावएण य अवस्स कायक्वयं हवइ जम्हा। अंतो अहो निसिस्स य तम्हा आवस्सयं नाम ॥१॥" तथा "जण्णं समणो वा समणी |वा सावओ वा साविया वा तच्चित्ते तल्लेसे तम्मणे उभओ कालं आवस्सए चिट्ठति तनं लोउत्तरिए भावावस्सए" [श्रमणेन श्रावकेण चावश्यं कर्तव्यं भवति यस्मात् । अन्तरबो निशायाश्च तसादावश्यकं नाम ॥१॥ यत् श्रमणो वा श्रमणी वा श्रावको वा श्राविका वा तच्चित्तः तन्मनाः तल्लेश्यः उभयमिन् काले आवश्यकाय तिष्ठति तत् लोकोतरिकं भावावश्यकं ] इत्यादेरनुयोगद्वारवचनात् , तथा 'सम्यग्दर्शनसम्पन्नः प्रवचनभक्तिमान् पड्विधावश्यकनिरतः षट्स्थानयुक्तश्च श्रावको भवती'त्युमास्वातिवाचकवचनाच श्रावकस्य षड्विधावश्यकस्य सिद्धावावश्यकान्तर्गतं प्रसिद्धं चैत्यवन्दनं सिद्धमेव भवतीति ।
in Education Interra
For Personal & Private Use Only
vnww.jainelibrary.org