SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥१८३॥ नानि मलादिकमादायोद्वलंतीति उद्वर्त्तनानि तान्येव विशेषस्तु लोकरूढिसमवसेय इति स्नेहपानानि - द्रव्यविशेषपकघृतादिपानानि वमनानि च प्रसिद्धानि विरेचनानि - अधोविरेकाः स्वेदनानि सप्तधान्यकादिभिः अवदहनानि - दम्भनानि अपनानानि - स्नेहापनयनहेतुद्रव्य संस्कृतजलेन स्नानानि अनुवासनाः - चर्मयत्र प्रयोगेणापानेन जठरे तैलविशेषप्रवेशनानि बस्तिक - र्माणि - चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणानि गुदे वा वर्त्त्यादिक्षेपणानि निरुहा - अनुवासना एव केवलं द्रव्यकृतो विशेषः शिरोवेधा- नाडीवेधनानि रुधिरमोक्षणानीत्यर्थः तक्षणानि त्वचः क्षुरप्रादिना तनूकरणानि प्रक्षणानि - इखानि खचो विदारणानि शिरोबस्तयः शिरसि बद्धस्य चर्मकोशस्य संस्कृततैलापूरलक्षणाः, प्रागुक्तानि बस्तिकर्माणि सामान्यानि अनुवासनानिरुहशिरोवस्तयस्तु तद्भेदाः, तर्पणानि - स्नेह द्रव्यविशेषैबृंहणानि पुटपाकाः - कुष्ठिकानां कणिकावेष्टितानामग्निना पचनानि अथवा पुटपाकाः - पाकविशेषनिष्पन्ना औषधविशेषाः छल्ल्यो- रोहिणीप्रभृतयः वल्ल्यो - गुडूचीप्रभृतयः कन्दादीनि प्रसिद्धानि, एतैरिच्छन्ति एकमपि रोगमुपशमयितुमिति, 'निबद्धाउए 'त्ति प्रकृतिस्थित्यनुभागबन्धापेक्षया 'बंधपएसिए' ति प्रदेशबन्धांपेक्षयेति 'अंतनिग्घाइए' त्ति निर्धातितान्तः, 'सवं पाणाइवायं पञ्चक्खामि' इत्यनेन यद्यपि सर्वग्रहणं तथापि तिरथां | देशविरतिरेव, इहार्थे गाथे- “ तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं । सुबइ बहुयाणंपिहु महवयारोहणं समए ॥ १ ॥ न महवय सम्भावेवि चरणपरिणामसम्भवो तेसिं । न बहुगुणापि जओ केवल संभूइपरिणामो ॥ २ ॥” इति [ तिरथां चारित्रं निवारितं अथ च तदा पुनस्तेषां श्रूयते बहूनामपि महात्रतारोपणं समये ॥ १ ॥ न महाव्रतसद्भावेऽपि चरण| परिणामसंभवस्तेषां । बहुगुणानामपि न यतः केवलसंभूतिपरिणामः ॥ २ ॥ ] इह यद्यपि सूत्रे उपनयो नोक्तः तथाऽप्येवं 1 Jain Education International For Personal & Private Use Only १३ दर्दुरज्ञाता०न न्दस्य रोगोत्पादमृतिदर्दुरत्वदेवत्वा दि सू. ९५ ॥१८३॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy