________________
शिवाभिः - गीर्दोषानुपद्रुताभिः धन्याभिः - धनलम्भिकाभिर्मङ्गल्याभिः - मङ्गलसाध्वीभिः सश्रीकाभिः - अलङ्कारादिशोभावद्भिः हृदयगमनीयाभिः - हृदये या गच्छन्ति कोमलत्वात् सुबोधत्वाच्च तास्तथा ताभिः, हृदयप्रह्लादिकाभिः - हृदयप्रह्लादनीयाभिः आह्लादजनकाभिः 'मितमधुर रिभितगंभीरसश्रीकाभिः' मिता:-वर्णपदवाक्यापेक्षया परिमिताः मधुराः - स्वरतः रिभिताः - स्वर - घोलनाप्रकारवत्यः गम्भीराः - अर्थत शब्दतश्च सह श्रिया - उक्तगुणलक्ष्म्या यास्तास्तथा ततः पदपञ्चकस्य कर्मधारयस्ततस्ताभिः गीर्भिः - वाग्भिः संलपन्ती - पुनः पुनर्जल्पन्तीत्यर्थः नानामणिकनकरत्नानां भक्तिभिः - विच्छित्तिभिश्चित्रं - विचित्रं यत्तत्तथा तत्र भद्रासने-सिंहासने आश्वस्ता गतिजनितश्रमापगमात् विश्वस्ता संक्षोभाभावात् अनुत्सुका वा 'सुहासणवरगय'त्ति सुखेन शुभे वा आसनवरे गता - स्थिता या सा तथा, करतलाभ्यां परिगृहीतः - आत्तः करतलपरिगृहीतस्तं शिरस्यावर्त्त आवर्त्तनं - परिभ्रमणं यस्य स तथा शिरसावर्त्त इत्येके, शिरसा अप्राप्त इत्यन्ये, तमंजलिं मस्तके कृत्वा एवमवादीत् - 'किं मन्ने' इत्यादि, को मन्ये कः कल्याणफलवृत्तिविशेषो भविष्यति, इह मन्ये वितर्कार्थो निपातः, 'सोच्च'ति श्रुखा श्रवणतः निशम्य - अवधार्य हृष्टतुष्टो यावद्वि| सर्पद्धृदयः । तथा वाचनान्तरे पुनरिह राज्ञीवर्णके चेदमुपलभ्यते ।
तणं सेणिए राया धारिणीए देवीए अंतिए एयमहं सोचा निसम्म हट्ठ जाव हियये धाराहयनीवसुरभिकुसुमचुंचुमालइयतणुऊस सियरोमकूवे तं सुमिणं उग्गिण्हइ उग्गिण्हहत्ता ईहं पविसति २ अप्पणो साभाविएणं मइपुवएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति २ धारणिं देवीं ताहिं जाव हिययपल्हाय णिज्जाहिं मिउम हुररिभियगंभीरसस्सिरियाहिं वग्गूहिं अणुवहेमाणे २ एवं वयासी- उराले णं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org