SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म - कथाङ्गम्. ॥ १७२ ॥ वायवः पश्चाद्वाता वा मन्दाः - शनैः सञ्चारिणः महावाता:- उदंडवाता वान्ति तदा 'अप्पेगइय'त्ति अप्येके केचनापि स्तोका इत्यर्थः, 'जुण्ण'त्ति जीर्णा इव जीर्णाः, झोड:- पत्रादिशाटनं, तद्योगात्तेऽपि झोडा:, अत एव परिशटितानि कानिचिच्च पाण्डूनि पत्राणि पुष्पफलानि च येषां ते तथा शुष्कवृक्षक इव म्लायन्तस्तिष्ठन्ति इत्येष दृष्टान्तो, योजना त्वस्यैवं 'एवामेवेत्यादि, 'अण्णउत्थियाणं' ति अन्ययूथिकानां - तीर्थान्तरीयाणां कापिलादीनामित्यर्थः, दुर्वचनादीनुपसर्गान् नो सम्यक् सहते इति, 'एस णं' ति य एवंभूतः एष पुरुषो देशविराधको ज्ञानादिमोक्षमार्गस्य, इयमत्र विकल्पचतुष्टयेऽपि भावना - यथा दावद्रव्यवृक्षसमूहः स्वभावतो द्वीपवायुभिः बहुतरदेशैः स्वसम्पदः समृद्धिमनुभवति देशेन चासमृद्धि १ समुद्रवायुभिश्व देशैरसमृद्धिं देशेन च समृद्धि २ मुभयेषां च वायूनामभावे समृद्ध्यभाव ३ मुभयसद्भावे च सर्वतः समृद्धि ४ मेवं क्रमेण साधुः कुतीथिंक गृहस्थानां दुर्वचनादीन्यसहमान: क्षान्तिप्रधानस्य ज्ञानादिमोक्षमार्गस्य देशतो विराधनां करोति, श्रमणादीनां बहुमानविषयाणां दुर्वचनादिक्षमणेन बहुतरदेशानामाराधनात् १ श्रमणादिदुर्वचनानां सहने कुतीर्थिकादीनां सहने देशानां विराधनेन | देशत एवाराधनां करोति २ उभयेषामसहमानो विराधनायां सर्वथा तस्य वर्त्तते ३ सहमानश्च सर्वथाऽऽराधनायामिति ४, इह पुनर्विशेषयोजनामेवं वर्णयन्ति - "जैह दावद्दवतस्वणमेवं साहू जहेव दीविच्चा । वाया तह समणाइयसपक्खवयणाई दुसहाई ॥ १ ॥ जह सामुद्दयवाया तहऽण्णतित्था इकडुयवयणाई । कुसुमाइसंपया जह सिवमग्गाराहणा तह उ ॥ २ ॥ जह कुसुमाइविणासो १ यथा दावद्रवतरुवनमेवं साधवः यथैव द्वीपगाः । वातास्तथा श्रमणादिकसपक्षवचनानि दुःसहानि ॥ १ ॥ यथा समुद्रवातास्तथाऽन्यतीर्थिकादिकटुकवचनानि । कुसुमादिसंपत् यथा शिवमार्गाराधना तथैव ॥ २ ॥ यथा कुसुमादिविनाशः । Jain Education International For Personal & Private Use Only ११दावद्र विज्ञाताध्य. स्वपरोभ यानुभयो किसने देशविरा धनाराध सर्वारा धनविरा धनाः सू. ९० ॥ १७२ ॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy