________________
नादिस्खकार्यकरणशक्क्या 'लेश्यया' किरणरूपया 'मण्डलेन' वृत्ततया, क्षान्त्यादिगुणहानिश्च कुशीलसंसर्गात सद्गुरूणामपर्युपासनात् प्रतिदिनं प्रमादपदासेवनात् तथाविधचारित्रावरणकर्मोदयाच्च भवतीति, गुणवृद्धिस्वेतद्विपर्ययादिति, एवं च हीयमानानां जीवानां न वाञ्छितस्य निर्वाणसुखस्यावाप्तिरित्यनर्थः, आह च-'चंदोब कालपक्खे परिहाई पए पए पमायपरो।। |तह उग्घरविग्घरनिरंगणोवि न य इच्छियं लहइ ॥१॥"त्ति [चन्द्र इव कृष्णपक्षे परिहीयते पदे पदे प्रमादपरः। तथा उद्हविगृहनिरञ्जनोऽपि द्रव्यतो नेप्सितं लभते ॥१॥] गुणैर्वर्द्धमानानां तु वाञ्छितार्थावाप्तेरर्थ इति, विशेषयोजना पुनरेवम्
"जह चंदो तह साहू राहुवरोहो जहा तह पमाओ । वण्णाई गुणगणो जह तहा खमाई समणधम्मो ॥१॥ पुण्णोवि पइदिणं| ISजह हायंतो सवहा ससी नस्से । तह पुण्णचरित्तोऽविहु कुसीलसंसग्गिमाईहिं ॥ २॥ जणियपमाओ साहू हायंतो पइदिणं|
खमाईहिं । जायइ नढचरित्तो तत्तो दुक्खाई पावेइ ॥ ३॥ तथा-'हीणगुणोविहु होउं सुहगुरुजोगाइजणियसंवेगो । पुण्णस-11 रूवो जायइ विवड्डमाणो ससहरोव ॥ ४ ॥ [ यथा चन्द्रस्तथाः साधुः राहूपरोधो यथा तथा प्रमादः । वर्णादिर्गुणगणो यथा |तथा क्षमादिः श्रमणधर्मः॥१॥ पूर्णोऽपि प्रतिदिनं यथा हीयमानः सर्वथा नश्यति शशी। तथा पूर्णचारित्रोऽपि कुशीलसं-% &सर्गादिभिः ॥२॥ जातप्रमादः साधुः प्रतिदिन हीयमानः क्षमादिभिः। जायते नष्टचारित्रः ततो दुःखानि प्राप्नोति ॥३॥
हीनगुणोऽपि भूखा शुभगुरुयोगादिजनितसंवेगः । पूर्णस्वरूपो जायते विवर्धमानः शशधर इव ॥४॥] दशमज्ञातविवरण |समाप्तमिति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org