________________
See
पड़तुवर्णन
ज्ञाताधर्म- सुरभिदानं-सुगन्धिमदजलं यस्य स तथा, प्रावृट् ऋतुरेव गजवरः प्रावृऋतुगजवरः स्वाधीनः, इह सिलिन्ध्रादिवनस्पतीनां ९ माककथाङ्गम्, कालान्तराकृतकुसुमानां सदाकुसुमितानां भावादात्मवशोऽस्तीति भावः ॥१॥ तथा तत्रैव वनखण्डे सुरगोपा-इन्द्रगोपकाभिधाना न्दीज्ञाता. रक्तवर्णाः कीटास्त एव मणयः पद्मरागादयः तैर्विचित्र:-कर्बुरो यः स तथा, तथा दर्दुरकुलरसितं-मण्डूकसमूहरटितं सदेव ।
वनपण्डे ॥१६॥
उज्झरवो-निर्झरशब्दो यत्र स तथा, बहिणवृन्देन-शिखण्डिसमूहेन परिणद्धानि-परिगतानि शिखराणि ऋतुपक्षे वृक्षसम्बन्धीनि पर्वतपक्षे कूटानि यत्र स तथा वर्षारात्रऋतुरेव पर्वत इति विग्रहः, स्वाधीनः-स्वायत्तस्तद्धर्माणां सर्वदा तत्र भावादिति ॥२॥ पर्वतशशि|'वावीसु'इत्यादि प्रथमाध्ययनवत्, 'सरओ हेमंतो यति कार्तिकमार्गशीर्षों पौषमाघौ चेत्यर्थः, इहापि गीतिकाद्वयं- सागरैः सू. 'तत्थ उ'इत्यादि, तत्रैव सनो-वल्कप्रधानो वनस्पतिविशेषः सप्तपर्ण:-सप्तच्छदस्तयोः पुष्पाणि सनसप्तपर्णानि तान्येव ककुद-स्कन्धदेशविशेषो यस्य स तथा, नीलोत्पलपद्मनलिनानि-जलजकुसुमविशेषास्तान्येव शृङ्गे यस्य स तथा, सारसाश्चक्रवाकाश्च-पक्षिविशेषास्तेषां 'रवियं ति रुतं तदेव घोषो-नर्दितं यस्य स तथा शरतुरेव गोपतिः-गवेन्द्रः शरदृतुगोपतिः स्वाधीनः
॥ १॥ तथैव तत्र वनखण्डे सितानि यानि कुन्दानि-कुन्दाभिधानवनस्पतिकुसुमानि तान्येव धवला ज्योत्स्ना-चन्द्रिका यस्स। IS| स तथा, पाठान्तरेण 'सितकुंदविमलजोण्हो ति स्पष्टं, कुसुमितो यो लोध्रवनखण्डः स एव मण्डलतलं-बिम्ब यस ISस तथा, तुषारं-हिमं तत्प्रधानाः या उदकधारा-उदकबिन्दुप्रवाहास्ता एव पीवरा:-स्थूलाः करा:-किरणा यस स तथा, हेम
॥१६॥ न्तऋतुरेव शशी-चन्द्र इति विग्रहः स्वाधीनः ॥२॥ तथैव 'वसंते गिम्हे यति फाल्गुनचैत्रौ वैशाखज्येष्ठौ चेत्यर्थः, KI'तत्थ उ'इत्यादि गीतिकाइयं, तत्र च सहकाराणि-चूतपुष्पाणि तान्येव चारुहारो यस्य स तथा, किंशुकानि-पलाशंस कुसु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org