________________
ज्ञाताधर्मकथाङ्गम्.
॥१५९॥
च प्रतीतानां विलपितं विलापो यस्यां सा तथा, नानाविधै रलैः पण्यैव-भाण्डैः सम्पूर्णा या सा तथा, 'रोयमाणेहिं 'ति सशब्दमश्रूणि विमुञ्चत्सु 'कंमाणेहिं' ति शोकात् महाध्वनिं मुञ्चत्सु 'सोयमाणेहिं' शोचत्सु मनसा खिद्यमानेषु 'तिप्पमाहिं' ति भयात् प्रखेदलालादि तर्पत्सु 'विलपत्सु' आर्च जल्पत्सु एकं महत् 'अंतो जलगयं'ति जलान्तर्गतं गिरिशि| खरमासाद्य सम्भग्नः कूपकः - कूपकस्तम्भो यत्र यत्र सितपटो निवध्यते तोरणानि च यस्यां सा तथा तथा मोटिता ध्वज - दण्डा यस्यां सा तथा, वलकानां दीर्घदारुरूपाणां शतानि खण्डानि यस्यां सा तथा अथवा वलयशतैः- वलयाकारखण्डशतैः। खण्डिता या सा तथा, 'करकर'ति करकरेतिशब्दं विद्धाना तत्रैव जलधौ विद्रवं-विलयमुपगतेति, 'पोयवहणसंपरा एसुं' ति सम्परायः - सङ्ग्रामः तद्वद्यानि भीषणानि पोतवहनकार्याणि तानि तथोच्यन्ते तेषु देवताविशेषणानि विजयचौर विशेषणवद् गमनीयानि, 'असिखेडगवग्गहत्थ चि खङ्गफलकाभ्यां व्यम्रौ हस्तौ यस्याः सा तथा, 'रक्तगंडमंसुयाई' ति रक्तौ - रञ्जितौ गण्डौ यैस्तानि रक्तगण्डानि तानि श्मश्रूणि कूर्चकेशाः ययोस्ते रक्तगण्डश्म के 'माउयाहिं उवसोहियाई' ति इह माउगाउ उत्तरौष्ठरोमाणि सम्भाव्यन्ते अथवा 'माया' सख्यो मातरो वा ताभिः उपशोभिते - समारचितकेशलादिना जनितशोभे उपशोभिते वा - निर्मलीकृते शिरसी - मस्तके छित्त्वेति वाक्यशेषः, 'जण्णं देवाणुप्पिए' त्यादि, यं कश्चन प्रेष्याणामपि प्रेष्यं देवानुप्रिया वदिष्यति-उपदेक्ष्यति यदुतायमाराध्यः 'तस्स्र'ति तस्यापि आस्तां भवत्याः आज्ञा- अवश्यं विधेयतया आदेश: उपपातः - सेवावचनं-अनियमपूर्वक आदेश एव निर्देश:- कार्याणि प्रति प्रश्ने कृते यत्रियतार्थमुत्तरमेतेषां समाहारद्वन्द्वः तत्र, | अथवा यद्देवानां प्रिया वदिष्यति 'तस्स'ति तत्र आज्ञादिरूपे स्वास्यामः - वर्चिष्याम इति, 'अमयफलाई' ति अमृतोपमफलानि ।।
Jain Education International
For Personal & Private Use Only
९ माक
न्दीज्ञाता. सू. ७९-८०
॥१५९॥
www.jainelibrary.org