________________
स्वर्गसम्भव भोगजातं तस्य क्षीणः परिभोगो यस्याः सा तथा, च्यवनकाले देववरवधूः, अथवा 'उप्पयमाणीविवे' त्यादाविवशब्दस्यान्यत्र योगादुत्पतन्ती नौः, केव ? - सिद्धविद्याविद्याधरकन्यके वेत्यादि व्याख्येयमिति, तथा सञ्चूर्णितानि काष्ठानि कूबरं च-तुण्डं यस्याः सा तथा, तथा भग्ना मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा, मोटितो - भग्नः सहसा - अकस्मात सहस्रसज्जनाश्रयभूतो वा मालो-मालकः उपरितनभागो जनाधारो यस्याः सा तथा ततः पदद्वयस्य कर्मधारयः, तथा शूलाचितेव-शूलाप्रोतेव गिरिशृङ्गारोहणेन निरालम्बनतां गतत्वाच्छुलाचिता वङ्को वक्रः परिमर्शो - जलधिजलस्पर्शो यस्याः सा तथा ततः कर्मधारयः अथवा शूलायितः - आचरितशूलारूपः स्कन्दितपरिकरत्वात् 'सुलाइत'ति पाठे तु शूलायमानो वङ्कश्च वक्रः 'परिमासो'त्ति नौगतकाष्ट विशेषो नाविकप्रसिद्धो यस्यां सा तथा फलकान्तरेषु सङ्घटितफलक विवरेषु तटतटायमानाः- तथाविधध्वनिं विदधानाः स्फुटन्तो- विघटमानाः सन्धयो-मीलनानि यस्यां सा तथा विगलन्त्यो लोहकीलिका यस्यां सा तथा ततः कर्मधारयः, तथा सर्वाङ्गैः सर्वावयवैर्विजृम्भिता विवृततां गता या सा तथा, परिशटिता रज्जव:- फलकसङ्घातनदवरिका यस्याः सा तथा, अत एव 'विसरत'त्ति विशीर्यमाणानि सर्वाणि गात्राणि यस्याः सा तथा ततः कर्म्मधारयः, आमकमल्लकभूता - अपकशरावकल्पा, जलसम्पर्के क्षणेन विलयनात्, तथा अकृतपुण्यजनमनोरथ इव चिन्त्यमाना - कथमियमेतामापदं निस्तरिष्यतीत्येवं विकल्प्यमाना गुर्वी- गुरुका, आपदः सकाशात् दुः समुद्धरणीयत्वात्, निष्पुण्यजनेनापि खो मनोरथः कथमयं पूरयिष्यत इत्येवं चिन्त्यमानो दुर्निर्वहत्वाद् गुरुरेव भवन्तीति तेनोपमेति, तथा हाहाकृतेन - हाहाकारेण कर्णधाराणां - निर्यामकाणां नाविकानां - कैवर्त्तानां वाणिजकजनानां कर्मकराणां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org