________________
ज्ञाताधर्म
कथाङ्गम,
॥१५५॥
ईशानश्च वामं चमरोग्धस्तनं दक्षिणं बलिम शेषा यथार्हमङ्गोपाङ्गानि गृहीतवन्तः, ततस्तीर्थकरादिचितिक्षितिषु महास्तूपान् मल्लीज्ञाचक्रुः परिनिर्वाणमहिमानं च, ततः शक्रो नन्दीश्वरे गखा पूर्वसिन्नञ्जनकपर्वते जिनायतनमहिमानं चकार तल्लोकपालास्तुताध्यमचखारश्चतुषु पूर्वाञ्जनपार्श्ववर्तिषु दधिमुखपर्वतेषु सिद्धायतनमहिमानं चक्रुः, एवमीशानः उत्तरसिंस्तल्लोकपालास्तत्पार्श्व- लीनिर्वावर्तिदधिमुखेषु चमरो दक्षिणाञ्जनके तल्लोकपालास्तथैव बलिः पश्चिमेऽञ्जनके तल्लोकपालास्तथैव, ततः शक्रः स्वकीये विमाने Sणादि सु. गखा सुधर्मसभामध्यव्यवस्थितमाणवकाभिधानस्तम्भवर्त्तिवृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तम्मध्यवर्तिजिनसक्थीन्यप्रपुजत् मल्लिजिनसक्थि च तत्र प्राक्षिपद् एवं सर्वे देवा इति, 'एव'मित्यादि निगमनम् ॥ इह च ज्ञाते यद्यपि दृष्टान्तदाान्तिकयोजना सूत्रेण न दर्शिता तथापि द्रष्टव्या, अन्यथा ज्ञातखानुपपत्तेः, सा च किलैवम्-"उग्गतवसं. जमवओ पगिट्टफलसाहगस्सवि जियस्स । धम्मविसएवि सुहुमावि होइ माया अणत्थाय ॥१॥जह मल्लिस्स महाबलभवंमि तित्थयरनामबंधेऽवि । तवविसय थेवमाया जाया जुवइत्तहेउत्ति ॥२॥ [ उग्रतपःसंयमवतः प्रकृष्टफलसाधकस्यापि जीवस्य धर्मविषयापि सूक्ष्माऽपि भवति माया पुनरनर्थाय ॥ १॥ यथा मल्या महाबलभवे तीर्थकरनामबन्धेऽपि तपोविषय स्तोका माया जाता युवतिभावहेतुः॥२॥] अष्टमज्ञात विवरणं समाप्तमिति ॥८॥
॥१५५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org