________________
शतितमं पुरुष एव युगं पुरुषयुगं विंशतितमं प्रतिशिष्यं यावदित्यर्थः युगान्तकर भूमिर्मल्लि जिनस्याभवत्, मल्लि जिनादारभ्य तत्तीर्थे विंशतितमं पुरुषं यावत् साधवः सिद्धास्ततः परं सिद्धिगमनव्यवच्छेदोऽभूदिति हृदयं, 'दुवासपरियाए 'ति द्विवर्ष - पर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तमकार्षीत् - भवान्तमकरोत् तत्तीर्थे साधुर्नारात् कश्चिदपीति, 'दुमासपरियाए' इति कचित् कचिच्च 'चउमासपरियाए ' इति दृश्यते, 'वग्घारियपाणी'ति प्रलम्बितभुजः, 'जहा जंबुद्दीवपनन्तीति यथा जम्बूद्वीपप्रज्ञत्यां ऋषभस्य निर्वाणमहिमोक्तस्तथेह मल्लिजिनस्य वाच्य इत्यर्थः, स चैवमर्थतः - यत्र समये मल्लिरहन् कालगतो व्यतिक्रान्तः समुद्घातः छिन्नजातिजरामरणबन्धनः सिद्धः तत्र समये शक्रश्चलितासनः प्रत्युक्तावधि - विज्ञातजिननिर्वाणः सपरिवारः सम्मेतशैलशिखरेऽवततार, ततोऽसौ विमना निरानन्दोऽश्रुपूर्ण नयनो जिनशरीरकं त्रिः प्रदक्षिणीकृत्य अनतिदूरासन्ने नमस्यन् पर्युपास्ते स्म एवं सर्वेऽपि वैमानिकादयो देवराजाः, ततः शक्रो देवैर्नन्दनवनात् आनायितगोशीर्षसरसदारुविहितचितित्रयः क्षीरसमुद्रादानीतक्षीरोदकेन जिनदेहं स्वापयामास गोशीर्षचन्दनेनानु लिलेप हँसलक्षणं शाटकं निवासयामास सर्वालङ्कारविभूषितं चकार, शेषा देवा गणधरानगारशरीरकाण्येवं चक्रुः शक्रस्ततो देवैस्तिस्रः शिविकाः कारयामास तत्रैकत्रासौ जिनशरीरमारोपयामास महर्ष्या च चितिस्थाने नीला चितिकायां स्थापयामास, शेषदेवा गणधरानगारशरीराणि द्वयोः शिविकयोरारोप्य चित्यो ः स्थापयामासुः, ततः शक्रादेशादग्निकुमारा देवास्तिसृष्वपि चितिष्वग्निकार्य विकृतवन्तो वायुकुमारास्तु वायुकायं शेषदेवाश्च कालागुरुप्रवरकुन्दरुकतुरुक्क धूपान् घृतं मधु च कुम्भाग्रशः प्रचिक्षिपुः, ततो मांसादिषु दग्धेषु मेघकुमारा देवाः क्षीरोदकेन चितीर्निर्वापयामासुः, ततः शक्रो भगवतो दक्षिणमुपरितनं सक्थि जग्राह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org