SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ दामभिः-स्रग्भिः सुष्टु विरचिता द्वारशोभा यस्य तत्तथा तस्मिन् , तथा सुगन्धिवरकुसुमैदृदुकस्य-मृदोः पक्ष्मलस्य च-पक्ष्मवतः शयनस्य-तूल्यादिशयनीयस्य यः उपचार:-पूजा उपचारो वा स विद्यते यस्मिन् मण इत्यस्य मत्वर्थीयखात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवत्तच्च यद् हृदयनिवृतिकरं च-मनःस्वास्थ्यकरं तत्तथा तस्मिन् , तथा कपूरश्च लवङ्गानि चफलविशेषाः मलयचन्दनं च-पर्वतविशेषप्रभवं श्रीखण्डं कालागुरुश्च-कृष्णागरुः प्रवरकुन्दुरुकं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिल्हकं धूपश्च-गन्धद्रव्यसंयोगज इति द्वन्द्वः, एतेषां वा संबन्धी यो धूपः तस्य दह्यमानस्य सुरभिर्यो मघमघायमान:-अतिशयवान् गन्धः उद्भूतः उद्भूतः तेनाभिरामम्-अभिरमणीयं यत्तत्तथा तस्मिन् , तथा सुष्टु गन्धवराणां-प्रधानचूर्णानां गन्धो यस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तसिन्, तथा गंधवतिः-गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धव|र्तिस्तद्भूते-सौरभ्यातिशयात्तत्कल्पे, तथा मणिकिरणप्रणाशितान्धकारे, किं बहुना वर्णकेन?, वर्णकसर्वखमिदं धुत्या गुणैश्च सुरवरविमानं विडम्बयति-जयति यद्वरगृहकं तत्तथा तत्र, तथा तसिन् तादृशे शयनीये सहालिङ्गनवा -शरीरप्रमाणोपधानेन यत्तत्सालिङ्गनवर्तिकं तत्र, 'उभओ विवोयणे'त्ति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य 'विवोयणे'त्ति उपधाने यत्र तत्तथा तस्मिन् , 'दुहओ'त्ति उभयतः उन्नते मध्ये नतं च तन्निम्नखाद्गभीरं च महत्त्वान्नतगम्भीरं अथवा मध्येन च भागेन तु गम्भीरे-अवनते गङ्गापुलिनवालुकायाः अवदातः-अवदलनं पादादिन्यासेऽधोगमनमित्यर्थः तेन 'सालिसए'त्ति सदृशकमतिनम्रखाद्यत्तत्तथा तत्र, दृश्यते च हंसतूल्यादिष्वयं न्याय इति । तथा 'उयचिय'त्ति परिकर्मितं यत् क्षौम दूकूलं-कार्यासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः-एकः शाटकः स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तत्र, तथा आस्त Jain Education Intemarora For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy