SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥ १४ ॥ उज्ज्वलानां मणीनां-चंद्रकान्तादीनां कनकस्य रत्नानां - कर्केतनादीनां या स्तूपिका- शिखरं, तथा विटङ्कः कपोतपाली वरण्डकाधोवती अस्तरविशेष: जालं- सच्छिद्रो गवाक्षविशेषः, अर्द्धचन्द्र:- अर्द्धचन्द्राकारं सोपानं निर्यूहकं - द्वारपार्श्वविनिर्गतदारु अंतरं-अस्तर विशेष एव पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते निर्यूहकद्वयस्य यान्यन्तराणि तानि वा निर्यूहकान्तराणि कणकाली| अस्तरविशेषश्चन्द्रसालिका च-गृहोपरि शाला एतेषां गृहांशानां या विभक्तिः - विभजनं विविक्तता तया कलितं युक्तं यत्तत्तथा तस्मिन्, 'सरसच्छवाडवडंब सरइए त्ति स्थाप्यं, कैश्चित् पुनरेवं संभावितमिदं - 'सरसच्छधाउवलवन्नरइए 'ति तत्र सरसेनअच्छेन धातूपलेन - पाषाणधातुना गैरिकविशेषेणेत्यर्थः वर्णो रचितो यत्र तत्तथा 'बाहिरओ दूमियघट्ट मट्टे' ति दूमितं - धवलितं घृष्टं - कोमलपाषाणादिना अत एव मृष्टं-मसृणं यत्तत्तथा तस्मिन्, तथा अभ्यन्तरतः प्रशस्तं - स्वकीय २ कर्मव्यापृतं शुचि - पवित्रं लिखितं चित्रकर्म यत्र तत्तथा तस्मिन् तथा नानाविधानां जातिभेदेन पञ्चवर्णानां मणिरत्लानां सत्कं कुट्टिमतलं - मणिभूमिका यस्मिंस्तत्तथा तत्र तथा पद्मः - पद्माकारैरेवं लताभिरशोकलताभिः पद्मलताभिर्वा मृणालिकाभिः पुष्पवल्लीभिः - पुष्पप्रधानाभिः पत्रवल्लिभिः तथा वराभिः पुष्पजातिभिः - मालतीप्रभृतिभिचित्रितमुल्लोकतलं - उपरितनभागो यस्मिन् तत्तथा तत्र, इह च प्राकूतखेन 'उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्य इति, अथवा पद्मादिभिरुल्लोकस्य चित्रितं तलं - अधोभागो यस्मिन्निति, तथा वन्द्यन्त इति वन्दना - मङ्गल्याः ये वरकनकस्य कलशाः सुष्ठु - 'निम्मिय'ति न्यस्ताः प्रतिपूजिताः - चन्दनादिचर्चिताः सरसपद्मा:- सरसमुखस्थगनकमलाः शोभमाना द्वारभागेषु यस्य पाठान्तरापेक्षया चन्दन वरकनककलशैः सुन्यस्तैस्तथा प्रतिपुञ्जितैःपुञ्जीकृतैः सरसपद्यैः शोभमाना द्वारभागा यस्य तत्तथा तस्मिन्, तथा प्रतरकाणि-स्वर्णादिम या आभरण विशेषास्तत्प्रधानैर्मणिमुक्तानां Jain Education International For Personal & Private Use Only धारिण्याः स्वप्नःसूत्र ९ ॥ १४ ॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy