________________
द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा, 'सेणियस्स रन्नों इट्टा वल्लंभा' कांता काम्यखात् प्रिया प्रेमविषयत्वात् मणुना सुन्दरखात् 'नामधेजा' नामधेयवती प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्य-हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयखात् 'सम्मया' तत्कृतकार्यस्य सम्मतखाद्वहुमता-बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया' विप्रियकरणस्यापि पश्चात्मता अनुमता "भंडकरंडगसमाणा' आभरणकरण्डकसमानोपादेयखात् 'तेल्लकेला इव सुसंगोविया' तैल्लकेला-सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः स च मङ्गभयाल्लोच(ठ)नभयाच सुष्टु संगोप्यते एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिगिहीया' वस्त्रमञ्जषेवेत्यर्थः, 'रयणकरंडगोविव सुसारविया' सुसंरक्षितेत्यर्थः, कुत इत्याह, 'माणं सीयं मा णं उण्हं मा णं दंसा मा णं मसगा मा णं वाला मा ण चोरां मा णं वाइयपित्तियसंभियसन्निवाइयविविहरोगायंका फुसंतुत्तिकट्ट सेणिएणं रन्ना सद्धिं विउलाई भौगंभोगाई भुंजमाणा विहरति' माशब्दा निषेधार्थाः, णकारा वाक्यालङ्कारार्थाः, अथवा 'माणं ति मैनामिति प्राकृतखात , व्याला:श्वापदभुजगाः रोगाः-कालसहाः आतङ्काः-सद्योघातिनः, इतिकट्ट-इतिकृता इतिहेतो गभोगान्-अतिशयवद्भोगानिति, 'तए णं'ति ततोऽनन्तरं 'तंसि तारिसयंसित्ति यदिदं वक्ष्यमाणगुणं तसिंस्तादृशके यादृशमुपचितपुण्यस्कन्धानामङ्गिनामुचितं 'वरघरए'त्ति संबन्धः वासभवने इत्यर्थः, कथंभूते ?-'षट्काष्ठकं' गृहस्य बाह्यालन्दकं पदारुकमिति यदागमप्रसिद्ध, द्वारमित्यन्ये स्तम्भविशेषणमिदमित्यन्ये, तथा लष्टा-मनोज्ञा मृष्टा-मसृणाः संस्थिता-विशिष्टसंस्थानवन्तो ये स्तम्मास्तथा उद्ता-ऊद्ध-11 गता स्तम्भेषु वा उद्गता-व्यवस्थिताः स्तम्भोद्गताः प्रवराणां वराः प्रवरवराः-अतिप्रधाना याः शालभञ्जिकाः-पुत्रिकास्तथा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org