SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म- कथाङ्गम्. ॥१५॥ रको मलको नवत: कुशक्तो लिम्बः सिंहकेंसरश्चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम्-आच्छादितं यत्तत्तथा, इह चास्तरको लोकप्रतीत एव मलककुशक्तौ तु रूढिगम्यौ नवतस्तु ऊोविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो-बालोरभ्रस्योर्णायुक्ता कृतिः स्वमसूत्र सिंहकेसरो-जटिलकम्बला, तथा सुष्टु विरचितं शुचि वा रचितं रजस्त्राणं-आच्छादनविशेषोऽपरिभोगावस्थायां यसिंस्तत्तथा तत्र, रक्तांशुकसंवृते- मशकंगृहाभिधानवस्त्राते सुरम्ये तथा आजिनकं-चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति तथा रूतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं एभिस्तुल्यः स्पर्शो यस्य, तूलं वा-अर्कतूलं तत्र पक्षे एतेषामिव स्पर्शो यस्य तत्तथा तत्र, पूर्वरात्रश्चासावपररात्रश्च पूर्वरात्रापररात्रः स एव काललक्षणः समयः न तु सामाचारादिलक्षणः पूर्वरात्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः, इह चार्षखादेकरेफलोपेन 'पुवरत्तावरत्ते'त्युक्तं, अपर रात्रशब्दो वाध्यमिति, सुप्तजागरा-नातिसुप्ता नातिजाग्रती, अत एवाह 'ओहीरमाणीति वारंवारमीपन्निद्रां गच्छन्तीत्यर्थः, एकं महान्तं सप्तोत्सेधमित्यादि विशेषणं मुखमतिगतं गजं दृष्ट्वा प्रतिबुद्धेति योगः, तत्र सप्तोत्सेधं सप्तसु-कुम्भादिषु स्थानेषूनतं सप्तहस्तोच्छ्रितं वा 'रयय'ति रूप्यं 'नहयलंसित्ति नभस्तलान्मुखमतिगतमिति योगः, वाचनान्तरे खेवं दृश्यते-'जाव सीहं सुविणे पासित्ता णं |पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यं 'एकं च णं महंतं पंडुरं धवलयं सेयं' एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्थ, एतदेवोपमानेनाह-संखउलविमलदहियणगोखीर (विमल) फेणरयणिकरपगासं' शंखकुलस्येव विमलदन इव घनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाशः-प्रभा यस्य स तथा तं, अथवा 'हाररजतखीरसागरदगरयमहासेल|पंडुरतरोरुरमणिजदरिसणिज' हारादिभ्यः पाण्डुरतरो यः स तथा, इह च महाशैलो-महाहिमवान् तथा उरु:-विस्तीर्णः रम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy