SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ एव 'एगा हिरण्णकोडी'त्याद्यपि शकार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि स्वकीयधनधान्यादिगतं दानं सम्भवतीति, 'तत्थ तत्यत्ति अवान्तरपुरादौ देशे देशे-शृङ्गाटकादौ 'तहिं तहिंति तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेष्विति । तात्पर्यमिति, महानससाला-रसवतीगृहाणि 'दिण्णभयभत्तवेयण'त्ति दत्तं-वितीर्ण भृतिभक्तलक्षणं द्रव्यभोजनखरूपं वेतनं-18 मूल्यं येभ्यस्ते तथा 'पासंड'त्ति लिङ्गिनः 'सवकामगुणियंति सर्वे कामगुणा-अभिलषणीयपर्याया रूपरसगन्धस्पर्शलक्षणाः सन्ति सञ्जाता वा यत्र तत् सर्वकामगुणिकं सर्वकामगुणितं वा, कः किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तत्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत् , 'सुरासुरियं ति वाचनान्तरे दृश्यते तत्र भोजने अयं च सूरोऽयं च सूरो भुक्तां च यथेष्टमित्येवं या परिवेषणक्रिया सा सूरामरिका पुटापुटिकादीनामिवात्र समासः तया मूरामरिकया, तृतीयार्थे | चेह सूत्रनिर्देशे द्वितीया द्रष्टव्येति, 'वरवरिया' गाहा वरस्य-इष्टार्थस्य वरण-ग्रहणं वरवरिका, वरं वृणुत वरं वृणुतेत्येवं संशब्दनं ४ | वरवरिकेति भावः, सुरासुरैर्देवदानवनरेन्द्रश्च महिता येते तथा तेषां, 'सारस्सय'गाहा सारस्वताः १ आदित्याः २ वह्नयो ३% | वरुणाश्च ४ गतोयाश्च ५ तुषिताः ६ अव्याबाधाः ७ आग्नेयाश्चे ८ त्यष्टौ कृष्णराज्यवकाशान्तरस्थविमानाष्टकवासिनो रिष्ठाश्चेति-18 रिष्ठाख्यविमानप्रस्तटवासिनः, कचित् दशविधा एते व्याख्यायन्ते, अस्माभिस्तु स्थानाङ्गानुसारेणैवमभिहिताः, 'हहरोमकूवेहिंति रोमाञ्चितैः 'चलचवलकुंडलधरति चलाश्च ते चपलकुण्डलधराश्चेति विग्रहः, 'सच्छंदविउवियाभरणधारिति स्वच्छन्दाश्च ते विकुर्विताभरणधारिणश्च स्वच्छन्देन वा-स्वाभिप्रायेण विकुर्वितान्याभरणानि धारयन्तीति विग्रहः, 'जहा जमालिस्स'त्ति भगवत्यां यथा जमालेः निष्क्रमणं तथेह वाच्यमिहैव वा यथा मेघकुमारस्य, नवरं चामर Jain Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy