________________
जीवविमक्तमानं सत यत् कुथितं-कोथगुपगतं तत् मृतकुथितमीषदुर्गन्धमित्यर्थः, तथा विनष्ट-उच्छ्नखादिभिर्विकारः खरूपादपेतं सत् यदुरभि-तीव्रतरदुष्टगन्धोपेतं तत्तथा व्यापन्न-शकुनिशृगालादिभिर्भक्षणाद्विरूपां विभत्सामवस्था प्राप्तं सद्यद् दुरभिगन्धंतीव्रतमाशुभगन्धं तत्तथा, ततः पदत्रयस्य कर्मधारयः, तत्र तदेव वा 'किमिजालाउलसंसत्ते' कृमिजालैराकुलैःव्याकुलैः आकुलं वा-सङ्कीर्ण यथा भवतीत्येवं संसक्तं-सम्बद्धं यत्र तत्तथा, तत्र तदेव वा 'असुइविलीणविगयविभच्छदरिसणिज्जे' अशुचि-अपवित्रमस्पृश्यखात् विलीनं-जुगुप्सासमुत्पादकखात् विकृतं-विकारवत्वात् बीभत्सं द्रष्टुमयोग्यखात् एवंभूतं दृश्यते इति दर्शनीयं, ततः कर्मधारयः, तत्र तदेव वा "भवेतारूवे सिया' यादृशः सर्पादिकलेवरे गन्धो भवेत्। यादृशं वा सादिकलेवरं गन्धेन भवेत् एतद्रूपस्तद्रूपो वा स्याद्-भवेत्तस्य भक्तकवलस्य गन्ध इति सूत्रकारस्य विकल्पोल्लेखः ?, 'नो इणढे समढे' नायमर्थः समर्थः-सङ्गत इत्ययं तु तस्यैव निर्णयः, निर्णीतमेव गन्धस्वरूपमाह-एत्तो अणिहतराए चेव' इतः-अहिकडेवरादिगन्धात् सकाशादनिष्टतर एव-अभिलाषस्याविषय एव अकान्तरकः-अकमनीयतरखरूपः अप्रियतरः-अप्रीत्युत्पादकलेन अमनोज्ञतरक:-कथयाऽप्यनिष्टखात् अमनोज्ञतरश्चिन्तयापि मनसोऽनभिगम्य इत्यर्थः।
तेणं कालेणं २ कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्त णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं एगे णागघरए होत्था दिवे सच्चे सच्चोवाए संनिहियपाडिहेरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी अमचे सामदंड०, तते णं पउमावतीए अन्नया कयाई
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org