________________
ततः शक्रो वैश्रमणमवादी-भो देवानुप्रिय! द्वात्रिंशद्धिरण्यकोटीात्रिंशत्सुवर्णकोटीश्च जिनजन्मभवने यथा संहरेति, तदादेशाच्च जृम्भका देवास्तथैव चक्रुः शक्रः पुनर्देवैर्जिनजन्मनगर्या त्रिकादिष्वेवं घोषणं कारयामास, यथा-हन्त ! भुवनवासादिदेवाः! शृण्वन्तु भवन्तो यथा यो जिने जिनजनन्यां वाऽशुभं मनः सम्प्रधारयति तस्यार्जकमञ्जरीव सप्तधा मूर्द्धा स्फुटतु, ततो देवा नन्दीश्वरे महिमानं विदधुः, खस्थानानि च जम्मुरिति । मालायै हितं तत्र वा साध्विति माल्यं-कुसुमं तद्गतदोहदपूर्वकंजन्मत्वेनान्वर्थतः शब्दतस्तु निपातनात मल्लीति नाम कृतं, यस्तु स्त्रीवेऽपि तस्याईजिनस्तीर्थकर इत्यादिशब्दव्यपदेशः सोऽहंदादिशब्दानां बाहुल्येन पुंस्खेव प्रवृत्तिदर्शनादिति, 'यथा महाबल' इति भगवत्यां महाबलोऽभिहित इहैव वा यथा मेघकुमार इति, 'सा वड्डए भगवती'त्यादि गाथाद्वयं आवश्यकनियुक्तिसम्बन्धि ऋषभमहावीरवर्णकरूपं बहुविशेषणसाधादिहाधीतं न पुनर्गाथाद्वयोक्तानि विशेषणानि सर्वाणि मल्लिजिनस्य घटन्त एव, तच्च दर्शयिष्यामः, ततःसा वर्द्धते-वृद्धिमुपगच्छति स भगवती ऐश्वर्यादिगुणयोगात् देवलोकाच्च्युता अनुत्तरविमानावतीर्णवात् अनुपमश्रीका-निरुपमानशोभा दासीदासपरिवृतेति प्रतीतं, परिकीर्णा-परिकरिता पीठमर्दै:-वयस्वैरिति, एतत्किल प्रायः स्त्रीणामसम्भवि, वयस्यिकानामेव तासां सम्भवात् , अथवा अलौकिकचरितलेन पीठमईसम्भवेऽपि निर्दषणखेन भगवत्या नेदं विशेषणं न सम्भवति,असितशिरोजा-कालकुन्तला सुनयना-सुलोचना बिम्बोष्ठी-पकगोल्हाभिधानफलविशेषाकारोष्ठी धवलदन्तपङ्क्तिका पाठान्तरेण धवलदन्तश्रेणिका वरकमलगर्भगौरीत्येतद्विशे षणं न सम्भवति तस्याः कमलगर्भस्य सुवर्णवर्णखात् भगवत्याश्च मल्याः प्रियङ्गुवर्णखेन श्यामखाद्, उक्तं च-"पउमाभ वासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुबयनेमी काला पासो मल्ली पियंगाभा ॥१॥" इति, अथवा वरकमलस्य-प्रधान-18
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org