________________
ज्ञाताधर्म
कथाङ्गम्. ॥१२७॥
हस्ता जिनस्य चतसृषु विदिक्षु तथैव तस्थुः, मध्यमरुचकवास्तव्या रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्यर्थः चतस्त्रस्तास्तथैवागत्य जिनस्य चतुरङ्गुल वर्जनाभिनालच्छेदनं च विवरखननं च नाभिनालनिधानं च विवरस्य रत्नपूरणं च तदुपरि हरितालिकापीठबन्धं च पश्चिमावर्जदिकत्रये कदलीगृहत्रयं च तन्मध्येषु चतुःशालभवनत्रयं च तन्मध्यदेशे सिंहासनत्रयं च दक्षिणे सिंहासने जिनजनन्योरुपवेशनं च शतपाकादितैलाभ्यङ्गनं च गन्धद्रव्योद्वर्त्तनं च पुष्पोदकं च पूर्वत्र पुष्पोदकगन्धोदकशुद्धोदकमज्जनं च सर्वालङ्कारविभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठैर्वह्नयुज्ज्वलनं चाग्निहोमं च भूतिकर्म च रक्षापोहलिकां च मणिमयपाषाणद्वयस्य जिनक र्णाभ्यर्णे प्रताडनं च भवतु भगवान् पर्वतायुरिति भणनं च पुनः समातृकजिनस्य स्वभवननयनं च शय्याशायनं च चक्रुः कृत्वा च गायन्त्यस्तस्थुरिति । सौधर्मकल्पे च शक्रस्य सहसा आसनं प्रचकम्पे अवधिं चासौ प्रयुयुजे तीर्थकरजन्म चालुलोके ससंभ्रमं च सिंहासनादुत्तस्थौ पादुके च मुमोच उत्तरासङ्गं च चकार सप्ताष्टानि च पदानि जिनाभिमुखमुपजगाम भक्तिभरनिर्भरो यथाविधि जिनं च ननाम पुनः सिंहासनमुपविवेश हरिणेगमेषीदेवं पदात्यनीकाधिपतिं शब्दयांचकार तं चादिदेश यथा सुधर्मायां सभायां योजनपरिमण्डलां सुघोषाभिधानां घण्टां त्रिस्ताडयनुद्धोषणां विधेहि, यथा-भो भो देवा ! गच्छति शक्रो जम्बूद्वीपं तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृद्ध्या शीघ्रं शक्रस्यान्तिके प्रादुर्भवतेति स तु तथैव चकार, तस्यां च घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशद्घण्टालक्षाणि समकमेव रणरणारखं चक्रुः, उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्टं देवाः सपदि विदधुः, ततो पालकाभिधानाभियोगिकदेवविरचिते लक्षयोजनप्रमाणे पश्चिमावर्जदित्रय निवेशिततोरणद्वारे | नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढः सामानिकादिदेवकोटीभिरने
Jain Education International
For Personal & Private Use Only
८मलीज्ञा
ते जन्मम
होत्सवः
सू. ६६ स्वमूर्तिकारणं सू.
६७
॥१२७॥
www.jainelibrary.org