SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ राज्ञः प्रभावत्या देव्याः इत्ययमभिलापः संयोजितव्यो, जम्बूद्वीपप्रज्ञप्त्यां तु नायं विद्यते इति, किंपर्यवसानं जन्म वक्तव्यमित्याह-यावन्नन्दीश्वरे 'महिम'त्ति अतिदिष्टग्रन्थश्चार्थत एवं द्रष्टव्यो, यथा अष्टौ दिकुमारीमहत्तरिकाः भोगङ्कराप्रभृतयस्तत्समयमुपजातसिंहासनप्रकम्पाः प्रयुक्तावधिज्ञानाः समवसितैकोनविंशतितमतीर्थनाथजननाः ससम्भ्रममनुष्ठितसमवायाः सम-12 स्तजिननायकजन्मसु महामहिमविधानमस्माकं जीतमिति विहितनिश्चयाः स्वकीयस्वकीयाभियोगिकदेवविहितदिव्यविमानारूढाः | सामानिकादिपरिकरवृताः सर्वा मल्लिजिनजन्मनगरीमागम्य जिनजन्मभवनं यानविमानैस्त्रिः प्रदक्षिणीकृत्य उत्तरपूर्वस्यां दिशि यानविमानानि चतुर्भिरजुलैर्भुवमप्राप्तानि व्यवस्थाप्य जिनसमीपं जिनजननीसमीपं च गत्वा त्रिः प्रदक्षिणीकृत्य कृतप्राञ्जलिपुटा इदमवादिषुः-नमोऽस्तु ते रत्नकुक्षिधारिके ! नमोऽस्तु ते जगत्प्रदीपदायिके! वयमधोलोकवास्तव्या दिकुमार्यो जिनस्य जन्ममहिमानं ॥ विधास्यामः अतो युष्माभिन भेतव्यमिति अभिधाय च विहितसंवर्तवाताः जिनजन्मभवनस्य समन्तायोजनपरिमण्डलक्षेत्रस | तृणपत्रकचवरादेरशुचिवस्तुनोऽपनयनेन विहितशुद्योर्जिनजनन्योरदूरतो जिनस्यासाधारणमगणितगुणगणमागायन्त्यस्तस्थुः, एव-1 | मेवोर्वलोकवास्तव्या नन्दनवनकूटनिवासिन्य इत्यर्थः अष्टौ दिक्कुमारीमहत्तरिकास्तथैवागत्य विरचिताभ्रवद्देलिकाः आयोजनमा-1 नक्षेत्र गन्धोदकवर्ष पुष्पवर्ष धूपघटीश्च कृखा जिनसमीपमागत्य परिगायन्त्य आसांचक्रुः, तथा पौरस्त्यरुचकवास्तव्या रुचकाभिधानस्य त्रयोदशस्य द्वीपस्य मध्यवर्तिनः प्राकाराकारेण मण्डलव्यवस्थितस्योपरि पूर्व दिग्व्यवस्थितेष्वष्टासु कूटेषु कृतनिवासा इत्यर्थः । आगत्य तथैवादशेहस्ता गायन्त्यस्तस्थुः, एवं दक्षिणरुचकवास्तव्या जिनस्य दक्षिणेन भृङ्गारहस्ताः पश्चिमरुचकवास्तच्या जिनस्य पश्चिमेन तालवृन्तहस्ता उत्तररुचकवास्तव्याश्चामरहस्ता जिनस्य उत्तरेण, एवं चतस्रो रुचकस्य विदिवास्तव्या आगत्य दीपिका dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy