SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ तथा ईहा च-स्थाणुरयं पुरुषो वेत्येवं सदालोचनाभिमुखा मतिचेष्टा अपोहश्च-स्थाणुरेवायमित्यादिरूपो निश्चयः मार्गणं च-इह वल्युत्सर्पणादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्वयधर्मालोचनरूपं गवेषणं च-इह शरीरकण्डूयनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपं ईहाव्यूहमार्गणागवेषणानि तैरर्थशास्त्रे-अर्थोपायव्युत्पादग्रंथे कौटिल्यराजधानीत्यादौ या मतिर्बोधस्तया विशारदः-पण्डितो यः स ईहाव्यूहमार्गणगवेषणार्थशास्त्रमतिविशारदः, तथौत्पत्तिक्यादिकया बुद्ध्या उपपेतो-युक्तः, तत्रौत्पत्तिकी अदृष्टाश्रुताननुभूतार्थविषयाऽऽकसिकी वैनयिकी गुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या कर्मजा कृषिवाणिज्यादिकर्माभ्यासप्रभवा पारिणामिकी-प्रायो वयोविपाकजन्या, तथा श्रेणिकस्य राज्ञः बहुषु कार्येषु च-भक्तसेवकराज्यादिदानलक्ष णकृत्येषु विषयभूतेषु तथा कुटुम्बेषु च-खकीयपरकीयेषु विषयभूतेषु ये मत्रादयो निश्चयान्तास्तेषु आप्रच्छनीयः, तत्र मत्रा& मत्रणानि पर्यालोचनानि तेषु च गुह्यानीव गुह्यानि-लज्जनीयव्यवहारगोपितानि तेषु च रहस्यानि-एकान्तयोग्यानि तेषु निश्चयेषु । वा-इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु अथवा खतन्त्रेषु कार्यादिषु षट्सु विषयेषु चकाराः समुच्चयार्थाः आप्रच्छनीयः-सकृत् | प्रतिप्रच्छनीयो द्वित्रिकृतः, किमिति ?-यतोऽसौ मेढि'त्ति खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं गायति तद्वद्य-18 मालम्ब्य सकलमत्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी, तथा प्रमाणे प्रत्यक्षादि तद्वद्यः तदृष्टार्थानामव्यभि-18 |चारिखेन तथैव प्रवृत्तिनिवृत्तिगोचरखात् स प्रमाणं, तथा 'आधारे आधारस्येव सर्वकार्येषु लोकानामुपकारित्रात् तथा 'आलंबनं' रज्ज्वादि तद्वदापद्गादिनिस्तारकखादालम्बनं तथा चक्षुः-लोचनं तल्लोकस्य मन्त्र्यमात्यादिविविधकार्येषु प्रवृत्तिनिवृत्ति-18 विषयप्रदर्शकलाचक्षुरिति, एतदेव प्रपञ्चयति-'मेढिभूए'इत्यादि भूतशब्द उपमार्थः सर्वकार्येषु-सन्धिविग्रहादिषु सर्वभूमिका dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy