________________
नविनिर्गते देशान्तरगमनप्रवृत्ते आधार:-आश्रयो भूरिव आलम्बनं-वरत्रादिकमिव प्रतिबन्धः-प्रमाजनिकाशलाकादीनां लतादवरक इव कुलगृहं-पितृगृहं तद्वर्गो मातापित्रादिः संरक्षति अनाशनतः सङ्गोपयति संवरणतः संवर्द्धयति बहुखकरणतः छोल्लेइति निस्तषीकरोति 'अणुगिलइ'त्ति भक्षयति, कचित्फोलेईत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थः, 'पत्तिय'त्ति सञ्जातपत्राः 'वत्तियत्ति वीहीणां पत्राणि मध्यशलाकापरिवेष्टनेन नालरूपतया वृत्तानि भवन्ति तद्वृत्ततया जातवृत्तत्वाद्वर्तिताः शाखादीनां वा 8 समतया वृत्तीभूताः सन्तो वर्त्तिता अभिधीयन्ते, पाठान्तरेण 'तइया वत्ति सञ्जातत्वच इत्यर्थः, गर्भिता-जातगर्भा डोड-18| किता इत्यर्थः, प्रसूताः-कणिशानां पत्रगर्भेभ्यो विनिर्गमात् आगतगन्धा-जातसुरभिगन्धाः आयातगन्धा वा दूरयायिगन्धा | इत्यर्थः, क्षीरकिताः-सजातक्षीरकाः बद्धफलाः क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः, पकाः-काठिन्यमुपगताः, पर्यायागताः पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तय'त्ति सल्लकी वृक्षविशेषस्तस्या इव पत्रकाणि-दलानि कुतोऽपि साधम्यर्यात् सञ्जातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिताः-शुष्कपत्रतया सञ्जातशलाकाः पत्रकिताः
सञ्जातकुत्सितकाऽल्पपत्राः, 'हरियपत्वकंड'त्ति हरितानि-हरितालवर्णानि नीलानि पर्वकाण्डानि-नालानि येषां ते तथा, IS जाताश्चाप्यभूवन्, 'नवपज्जाणएहिं ति नवं-प्रत्यग्रं पायनं-लोहकारेणातापितं कुट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां
जले निबोलनं येषां तानि तथा तैः, 'असिएहिं ति दात्रैः, 'अखंडाणं'ति सकलानां अस्फुटितानां-असञ्जातराजीकानां छड २ इत्येवमनुकरणतः सूर्यादिना स्फुटा:-स्फुटीकृता शोधिता इत्यर्थः स्पृष्टा वा पाठान्तरेण पूता वा ये ते तथा| तेषां 'मागहए पत्थए'त्ति "दो असईओ पसई दो पसइओ उ सेइया होइ । चउसेइओ उ कुडओ चउकुडओ पत्थो
JainEducation International
For Personal & Private Use Only
www.jainelibrary.org