SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥११३॥ रमवसन्नो-विवक्षितानुष्ठानालसः, आवश्यकस्वाध्यायप्रत्युपेक्षणाध्यानादी नामसम्यक्कारीत्यर्थः कुत्सितशीलः कुशील:कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः प्रमत्तः - पञ्चविधप्रमादयोगात्, संसक्तः कदाचित्संविनगुणानां कदाचित्पार्श्वस्थादिदोषाणां सम्बन्धात् गौरवत्रय संसजनाच्चेति, ऋतुबद्धेऽपि - अवर्षाकालेऽपि पीठफलकानि शय्यासंस्तारकार्थं यस्य स तथा 'नाइभुज्जो एवं करणयाए 'त्ति नैवः भूयः पुनरपि एवं इत्थंकरणाय प्रवर्त्तिष्ये इति शेषः, 'एवमेवेत्यादिरुपनयः, इह गाथा - " सिढिलिय संजमकज्जावि होइउं उज्जमंति जइ पच्छा | संवेगाओ तो सेलउब्व आराहया होंति ।। १ ।।" [ शिथिलित संयमकार्या अपि भूत्वोद्यच्छन्ति यदि पश्चात् । संवेगात् तर्हि शैलक इव ते आराधका भवन्ति ॥ १ ॥ ] इति पञ्चमशैलकज्ञातविवरण समाप्तमिति ॥ पञ्चानन्तरं पष्ठं व्याख्यायते, तस्य च पूर्वेण सहायं सम्बन्धः - अनन्तराध्ययने प्रमादवतोऽप्रमादवतश्चानर्थेतरावुक्तौ, इहापि तयोरेव तावेवोच्येते इत्येव सम्बद्धमिदम् - जति णं भंते! समणेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमट्ठे पनन्ते छट्ठस्स णं भंते! नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं परिसा निग्या, तेणं कालेणं २ समणस्स जेट्ठे अंतेवासी इंदभूती अदूरसामंते जाव सुक्कज्झा Jain Education International For Personal & Private Use Only cacacacacacaca ५ शैलकज्ञातोपन यः ६ तुम्ब कज्ञातं सू. ६२ ॥ ११३॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy