SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Gao2920292908 भावेमाणे विहरइ 'सुए परिवायगे'त्ति शुको-व्यासपुत्रः ऋग्वेदादयश्चखारो वेदाः षष्टितन्त्रं-साङ्ख्यमतं सांख्यसमये-साङ्यसमा चारे लब्धार्थो, वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यं ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामितिहासपञ्चमानां इतिहास:| पुराणं 'निर्घण्टुषष्ठानां' निर्घण्टुः-नामकोशः साङ्गोपाङ्गानां' अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः सरहस्यानां-ऐदम्पर्ययुक्तानां सारक:-अध्यापनद्वारेण प्रवर्तकः सारको वा अन्येषां विस्मृतस्य स्मारणात् वारकोऽशुद्धपाठनिषेधकः पारगः-पारगामी षडङ्गवित् षष्टितत्रविशारदः षष्टितत्रं-कापिलीयशास्त्रं, षडङ्गवेदकखमेव व्यनक्ति-सङ्ख्याने-गणितस्कन्धे 'शिक्षाकल्पे' शिक्षायां-अक्षरस्वरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-पद्यवचनलक्षणनिरूपके निरुक्ते-शब्दनिरुक्तप्रतिपादके ज्योतिषामयने-ज्योतिःशास्त्रे अन्येषु च-ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित इति, वाचनान्तरं 'पश्चयमपञ्चनियमयुक्तः' तत्र पञ्च यमाः-प्राणातिपातविरमणादयः नियमास्तु-शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि शौचमूलकं यमनियममीलनाद्दशप्रकारं, धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा, त्रिदण्डादीनि सप्त हस्ते |गतानि यस्य स तथा, तत्र कुण्डिका-कमण्डलूः, कचित्काचनिका करोटिका वाऽधीयेते ते च क्रमेण रुद्राक्षकृतमाला मृद्भाजनं चोच्यते, छण्णालक-त्रिकाष्ठिका अङ्कुशो-वृक्षपल्लवच्छेदार्थः पवित्रक-ताम्रमयमङ्गुलीयकं केसरी-चीवरखण्डं प्रमार्जनार्थ, 'संखाणं ति साङ्ख्यमतं 'सज्जपुढवित्ति कुमारपृथिवी । 'पयणं आरुहेई' पाकस्थाने चुल्यादावारोपयति उष्माणं-उष्णत्वं ग्राहयति 'दिक्षि वमित्तए' मतं वमयितुं त्याजयितुमित्यर्थः । 'अट्ठाईति अर्थान् अर्यमाणखादधिगम्यमानखादित्यर्थः, प्रार्थ्यमानखाद्वा याच्यमानखादित्यर्थाः, वक्ष्यमाणयात्रायापनीयादीन् , तथा तानेव 'हेऊइंति हेतून् , अन्तर्वर्तिन्यास्तदी 0 PORORS Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy