________________
ज्ञाताधर्मकथाङ्गम्.
५ शैलकराजदीक्षा सू. ५६
॥११०॥
काः 'कुलस्थिति एकात एको भवान् इति, एक
यज्ञानसम्पदो गमकवात् , 'पसिणाईति प्रश्नान् पृच्छ्यमानत्वात् 'कारणाईति कारणानि विवक्षितार्थनिश्चयस्य जनकानि 'वागरणाई ति व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'निप्पट्टपसिणवागरणं ति निर्गतानि स्पष्टानि- स्फुटानि प्रश्नव्याकरणानि-प्रश्नोत्तराणि यस्य स तथा 'खीणा उवसंत'त्ति क्षयोपशममुपगता इत्यर्थः, एतेषां च यात्रादिप- दानामागमिकगम्भीरार्थत्वेनाचार्यस्य तदर्थपरिज्ञानमसम्भावयताऽपभ्राजनार्थ प्रश्नः कृत इति, 'सरिसवय'ति एकत्र सदृशवयसः-समानवयसः अन्यत्र सर्षपा:-सिद्धार्थकाः 'कुलस्थिति एकत्र कुले तिष्ठन्तीति कुलस्थाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवयादिपदप्रश्नः छलग्रहणेनोपहासार्थ कृत इति । 'एगे भवंति एको भवान् इति, एकत्वाभ्युपगमे आत्मनः कृते मूरिणा श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्ध्या एकत्वं दूषयिष्यामीतिबुद्धा पर्यनुयोगः शुकेन कृतः, 'दुवे भवंति द्वौ भवानिति च, द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुख्या पर्यनुयोगो विहितः, अक्षयः अव्ययः अवस्थितो भवाननेन नित्यात्मपक्षः पर्यनुयुक्तः, अनेके भूता-अतीता भावाः-सत्ताः परिणामा वा भव्याश्च-भाविनो यस्य स तथा, अनेन चातिक्रान्तमाविसत्ताप्रश्नेन अनित्यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे अन्यतरस्य दूषणायेति । तत्राचार्येण स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-एकोऽप्यहं, कथं ?, द्रव्यार्थतया जीवद्रव्यखेकत्वात्, न तु प्रदेशार्थतया, तथा बनेकत्वान्ममेत्यवयवादी (मश्रोत्राद्यवयवा) नामनेकत्वोपलम्भो न बाधकः, तथा कश्चित् स्वभावमाश्रित्यैकत्वसङ्ख्या विशिष्टिस्यापि पदार्थस्य खभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं-द्वावप्यहं ज्ञानदर्शनार्थतया, न चैकखभावे भेदो म दृश्यते, एको हि देवदत्तादिपुरुषः एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वपितृव्यत्वमातुलत्वमा
शुकेन कृतः, 'दुवे
॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org