________________
ज्ञाताधर्मकथाङ्गम्.
५ शैलकराजदीक्षा
॥१०॥
प्रसिद्धानि मिञ्जा च-तन्मध्यवर्ती धातुरस्थिमिञास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अटे अयं परमट्टे सेसे अण्णहे' 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं शेष-धनधान्यपुत्रदारराज्यकुप्रवचनादि, उस्सियफलिहे-उच्छ्रितं स्फटिकमिव स्फटिक-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या परितुष्टमना इत्यर्थः इति वृद्धव्याख्या, केचित्त्वाहुः उच्छ्रितः-अर्गलास्थानादपनीय ऊकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः उत्सृतो वा-अपगतः परिधः-अर्गला गृहद्वारे यस्यासौ उत्सृतपरिषः उच्छ्रितपरिघो वा औदार्यातिरेकादतिशयदानदायित्वेन भिक्षुप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रावृतद्वारः कपाटादिभिभिक्षुकप्रवेशार्थमेव अस्थगितगृहद्वार इत्यर्थः इत्येकीयं व्याख्यानं, वृद्धानां तु भावनावाक्यमेवं यदुत सद्दर्शनलोभेन कसाच्चित्पापण्डिकान बिभेति शोभनमार्गप्रतिग्रहेणोद्घाटशिरास्तिष्ठतीति भावः, 'चियत्ततेउरघरदारप्पवेसे' चियत्तत्ति-नाप्रीतिकरः। अन्तःपुरगृहे द्वारेण प्रवेशः शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुखं चास्यानेनोक्तं, अथवा चियत्वोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे गृहद्वारे वा प्रवेशो यस्य स तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयखादिति 'चाउद्दसट्टमुद्दिट्टपुणिमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे उद्दिष्टा-अमावास्या पौषधं-आहारपौषधादिचतूरूपं 'समणे निग्गंथे फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं' पतद्हः-पात्रं पादप्रोञ्छनं-रजोहरणं 'ओसहमेसजेणं' भेषजंपथ्यं 'पाडिहारिएणं पीढफलगसेज्जासंथारएणं पडिलामेमाणे प्रातिहारिकेण-पुनःसमर्पणीयेन पीठ:-आसनं फलकम्-अवष्टम्भार्थ शय्या-वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको-लघुतरः 'अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं
॥१०९॥
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org