________________
हलो' जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थः, विश्वस्यापि विश्वव्यतिकरस्य पञ्चमाङ्गे प्रतिपादितखात्षष्ठाङ्गस्य कोऽन्यो|ऽर्थो भगवताभिहितो भविष्यतीति, संजातश्रद्ध इत्यादौ समुत्पन्नश्रद्ध इत्यादौ च संशब्दः प्रकर्षादिवचनः, तथा उत्पन्नश्रद्धः प्रागभूता उत्पन्ना श्रद्धा यस्येत्युत्पन्नश्रद्धः, अथोत्पन्नश्रद्धखस्य जातश्रद्धत्वस्य च कोऽर्थभेदो?, न कश्चिदेव, किमर्थ तत्प्रयोगः ?, हेतुखप्रदर्शनार्थ, तथाहि-उत्पन्नश्रद्धत्वाज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, अपरस्वाह-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, कथं जातश्रद्धो ?, यमाजातसंशयः, षष्ठाङ्गार्थः पञ्चमाङ्गार्थवत् प्रज्ञप्तः उतान्यथेति, कथं संशयोऽजनि?, यसात् जातकुतूहलः, कीदृशो नाम षष्ठाङ्गस्यार्थो भविष्यति कथं च तमहमवभोत्स्से ? इति तावदवग्रहः, एवं संजातोत्पन्नसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति, 'उहाए उढेईत्ति उत्थानमुत्था-ऊर्ध्व वर्त्तनं तया उत्थया उत्तिष्ठति उत्थाय च 'जेणे'त्यादि प्रकटं, "अजसुहम्मे थेरे' इत्यत्र पट्यर्थे सप्तमीति 'तिखुत्तो'त्ति त्रिकृखस्त्रीन् वारान् 'आदक्षिणप्रदक्षिणा' दक्षिणपार्थादारभ्य परिभ्रमणतो दक्षिणपा
प्राप्तिरादक्षिणप्रदक्षिणा तां 'अजसुहम्मं थेरं' इत्यत्र पाठान्तरे आदक्षिणात्प्रदक्षिणो-दक्षिणपार्श्ववर्ती यः स तथा तं 'करोति' विदधाति वन्दते-वाचा स्तौति नमस्यति-कायेन प्रणमति नात्यासन्ने नातिदूरे उचिते देशे इत्यर्थः 'सुस्सूसमाणे'त्ति श्रोतुमिच्छन् 'नमंसमाणे त्ति नमस्यन् प्रणमन् अभिमुखः 'पंजलिउडे'त्ति कृतप्राञ्जलिः विनयेन प्रणमति-उक्तलक्षणेन 'पञ्जुवासमाणे त्ति पर्युपासनां विदधानः 'एव'मिति वक्ष्यमाणप्रकारं वदासित्ति अवादीत् , यदवादीत् तदाह-'जईत्यादि प्रकटं, नवरं यदि भदन्त ! श्रमणेन पञ्चमाङ्गस्यायमर्थः-अनन्तरोदितखेन प्रत्यक्षः प्रज्ञप्तस्ततः षष्ठाङ्गस्य कोऽर्थः प्रज्ञप्त, इति प्रश्नवाक्यार्थः, अथोत्तरदानार्थ 'जम्बूनामे त्ति हे जम्बू! इति-एवंप्रकारेणामत्रणवचसाऽऽमच्य आर्यसुधर्मा स्थविरः आर्यजम्बूनामानं अनगारमेवम
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org