SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासम् ॥९ ॥ येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा खात्मापि तपोरूपः संतापितो यतोऽन्यस्यास्पृश्य मिव | जम्बूस्वाजातमिति, तथा महातपाः-प्रशस्ततपा बृहत्तपा वा, तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेजः मिप्रश्नः कर्मेन्धनदाहकखात् , तथा "उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरी रे संखित्तविउलतेयलेसे"|| अध्ययनो इति पूर्ववत् , एवंगुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य 'अदूरसामंतेत्ति दूरं-विप्रकर्षः सामन्तं-समीपं देशःसू.५ उभयोरभावोऽदूरसामन्तं तसिन्नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः, कथं?-'उडेजाणू' इत्यादि शुद्धपृथिव्यासनवर्जनात् औपग्र हि कनिषद्याभावाच्च उत्कटुकासनः सनपदिश्यते ऊर्द्ध जानुनी यस्य स ऊर्द्धजानुः 'अधःशिराः' अधोमुखो नोर्बु तिर्यय वा विक्षिप्तदृष्टिः किं तु नियतभूभागनियमितदृष्टिरिति भावना, 'झाणकोहोवगए'त्ति ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्य प्रक्षिप्तमविप्रकीर्ण भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः, संयमेन-संवरेण तपसा-ध्यानेनात्मानं भावयन्-वासयन् विहरति-तिष्ठति । 'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्मात् ध्यानादनन्तरं णमित्यलंकारे, 'स' इति पूर्वप्रस्तुतपरामर्शार्थः तस्य तु सामान्योक्तस्य विशेषावधारणार्थ आर्यजम्बूनामेति, स च उत्तिष्ठतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसद्धे' इत्यादि, जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्धः, क ?-वक्ष्यमाणानां पदार्थानां तत्वपरिज्ञाने स तथा, जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्धारितार्थ ज्ञानमु-11 ॥९॥ भयवस्त्वंशावलम्बितया प्रवृत्तं, स खेवं तस्य भगवतो जातः-यथा भगवता श्रीमन्महावीरवर्द्धमानस्वामिना त्रिभुवनभवनप्रकाशप्रदीपकल्पेन पश्चमस्यांगस्य समस्तवस्तुस्तोमव्यतिकराविर्भावनेनार्थोऽमिहित एवं षष्ठस्याप्युक्तोऽन्यथा वेति, तथा 'जातकुतू सयन विहरतिमनुप्रविश्यस्तिमुपगतो किम्भूतः शत पूर्वप्रस्तुत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy