________________
ज्ञाताधर्म
कथाङ्गम्. ॥१०३॥
५ शैलकज्ञाते स्था
दीक्षादि सू. ५४
न्धिनः कर्मक्षयात्, आत्मना क्रियमाणं आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थः, 'अज्ञाने' त्यादि 'अप्पणा अप्पणो वा कम्मक्खयं करितए ति कर्मण इह षष्ठी द्रष्टव्या, 'पच्छाउरस्से' त्यादि, पश्चाद् अस्मिन् राजादौ प्रव्रजिते सति आतुरस्यापि च द्रव्याद्यभावादुःस्थस्य 'से' तस्य तदीयस्येत्यर्थः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्त्तमानीं प्रतिवहति, ७ वच्चापुत्रतत्रालब्धस्येप्सितस्य वस्तुनो लाभो योगो लब्धस्य परिपालनं क्षेमस्ताभ्यां वर्त्तमानकालभवा वार्त्तमानी वार्ता योगक्षेमवार्त्त मानी तां - निर्वाहं राजा करोतीति तात्पर्य, 'इतिकडु' इतिकृत्वा इतिहेतोरेवंरूपामेव वा घोषणां घोषयत - कुरुत, 'पुरिससहस्स' मित्यादि, इह पुरुषसहस्रं स्नानादिविशेषणं थावच्चापुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः । ' विज्जाहरचारणे' ति इह 'जंभए य देवे वीइवयमाणे इत्यादि' द्रष्टव्यं एवमन्यदपि मेघकुमारचरितानुसारेण पूरयित्वाऽध्येतव्यमिति । 'ईरियासमिए' इत्यादि, इह यावत्करणादिदं दृश्यं, "एसणासमिए आयाणभंडमत्त निक्खेवणासमिए" आदानेन - ग्रहणेन सह भाण्डमा - त्राया- उपकरणलक्षणपरिच्छदस्य या निक्षेपणा - मोचनं तस्यां समितः - सम्यक्प्रवृत्तिमान् ' उच्चार पासवणखेलसिंघाणजल्लपारि - द्वावणियासमिए' उच्चारः - पुरीषं, प्रश्रवणं-मूत्रं, खेलो निष्ठीवनं सिङ्घानो-नासामलः, जल्लः - शरीरमलः, मणसमिए वयसमिए कामसमिए' चित्तादीनां कुशलानां प्रवर्तक इत्यर्थः, 'मणगुत्ते वइगुत्ते कायगुत्ते' चित्तादीनामशुभानां निषेधकः, अत एवाइ गुत्ते - योगापेक्षया गुतिदिए - इन्द्रियाणां विषयेष्वसत्प्रवृत्तिनिरोधात् 'गुत्तबंभचारी' वसत्यादिनवब्रह्मचर्यगुप्तियोगात्, अकोहे ४, कथमित्याह - सन्ते-सौम्यमूर्तिखात् पसन्ते - कषायोदयस्य विफलीकरणात् उपसन्ते - कषायोदयाभावात् परिनिधुडे| स्वास्थ्यातिरेकात्, अणासवे- हिंसादिनिवृत्तेः अममे-ममेत्युल्लेखस्याभिष्वङ्गतोऽप्यसद्भावात्, 'अकिंचणे' निर्द्रव्यखात्, छिन्नग्गंथे
Jain Education International
For Personal & Private Use Only
॥१०३॥
www.jainelibrary.org