SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथानम्. मृणालानि च-नलिननालानि यत्र स तथा, कचिदेवं पाठः 'संछन्नपस्तपुण्फपलासे संछन्नैः पत्रैः-पभिनीदलैः पुष्पपलाशै-18 श्व-कुसुमदलैयः स तथा 'बहुउप्पलकुमुयनलिणसुभगसोगंधियडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरफुल्लोवइए' बहुभिरुत्प-18स.५१ लादिभिः केसरप्रधानैः फुल्लैः-जलपुष्पैरुपचितः-समृद्धो यः स तथा, तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानि-चन्द्रबोध्यादीनि पुण्डरीकाणि-सितपद्मानि शेषाणि लोकरूढ्याऽवसेयानि 'छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपत्थपुण्णे अच्छं च विमलं च यत्सलिलं-जलं पथ्यं-हितं तेन पूर्णः 'परिहत्थभमंतमच्छकच्छभअणेगसउणगणमिहुणपविचरिए' 'परिहत्थति दक्षा भ्रमन्तो मत्स्याः कच्छपाश्च यत्र स तथा अनेकानि शकुनगणानां मिथुनानि प्रविचरितानि यत्र स तथा, ततः पदद्वयस्य कर्मधारयः, 'पासाईए दरिसणिजे अभिरूवे पडिरूवे' इति प्राग्वत् , 'पावेत्यादि, पापौ पापकारिखात् चण्डौ क्रोधनखात रौद्रौ भीषणाकारतया तत्तद्विवक्षितं वस्तु लब्धुमिच्छत इति तल्लिप्सू साहसिकौ-साहसात् प्रवृत्तौ लोहितौ पाणी-अग्रिमौ पादौ ययोस्तौ तथा, लोहितपानं वा अनयोरस्तीति लोहितपानिनौ, आमिष-मांसादिकमर्थयतः-प्रार्थयतो यौ तौ तथा, आमिषाहारौ-मांसादिभोजिनौ आमिषप्रियौ-वल्लभमांसादिको आमिषलोलौ-आमिषलम्पटौ आमिषं गवेषयमाणो सन्तौ रात्रौरजन्यां विकाले च-सन्ध्यायां चरत इत्येवंशीलौ यौ तौ तथा, दिवा प्रच्छन्नं चापि तिष्ठतः । 'सूरिए'इत्यादि, सूर्ये-भास्करे 'चिरास्तमिते' अत्यन्तास्तं गते 'लुलितायां' अतिक्रान्तप्रायायां सन्ध्यावां 'पविरलमाणुस्संसि चिसंतपडिनिसंतंसिसि | कोऽर्थः-प्रविरलं किल मानुषं सन्ध्याकाले यत्र तत्र देशे आसीत् तत्रापि निशान्तप्रतिनिशान्ते-अत्यन्तं भ्रमणाद्विरते निशान्तेषु वा-गृहेषु प्रतिनिश्रान्ते-विश्रान्ते निलीने अत्यन्तजनसञ्चारविरह इत्यर्थः 'समाणंसित्ति सति आवाधां-ईपद्वाधां प्रवाधां-प्रकृष्टां dain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy