SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्फगंधवत्थं आसाएमाणा वीसाएमाणा परिभुंजेमाणा एवं च णं विहरंति, जिमियभुत्तुत्तरागयाविय णं समाणा देवदत्ताए सद्धिं विपुलाति माणुस्सगाई कामभोगाई भुंजमाणा विहरति । (सूत्रं ४६) 'एगउत्ति कचिदेकसिन् देशे सहितयोः-मिलितयोः समुपागतयोरेकतरस्य गृहे सविषण्णयोः-उपविष्टयोः संनिविष्टयो:|संहततया स्थिरसुखासनतया च व्यवस्थितयोमिथःकथा-परस्परकथा तस्यां समुल्लापो-जल्पो यः स तथा समुदपद्यत, 'समेच'त्ति समेत्य पाठान्तरे 'संहिच'त्ति संहत्य सह संभूय 'संगारंति सङ्केतं 'पडिसुणेति'त्ति अभ्युपगच्छतः। 'चउसट्ठी'त्यादि, चतुःषष्टिकलाः गीतनृत्यादिकाः स्त्रीजनोचिता वात्स्यायनप्रसिद्धाः चतुःषष्टिगणिकागुणाः आलिङ्गनादिकानामटानां क्रियाविशेषाणां प्रत्येकमष्टभेदलाव, एतेऽपि वात्स्यायनप्रसिद्धाः, एवं विशेषादयोऽपि, 'नवंगसुत्तपडिबोहियत्ति प्राग्वत् नवयौवनेति भावः 'संगयगयहसिय'इत्येनेनेदं सूचितं 'संगयगयहसियभणियविहियविलाससललियसलावनिउणजुत्तोवयारकुसला' व्याख्या बस्य पूर्ववत्, वाचनान्तरे त्विदमधिकं 'सुंदरथणजघणवयणचरणनयणलावण्णरूवजोवणविलासकलिया' उच्छ्रितध्वजा सहस्रर्भाव्यां लाभो यस्याः सा तथा, वितीर्णानि राज्ञा छत्रचामराणि वालवीजनिका च-चामरविशेषो यस्याः सा तथा, कीरथा-प्रवहणविशेषस्तेन प्रयात-गमनं यस्याः सा तथा, कीरथो हि ऋद्धिमतां केषांचिदेव भवतीति सोऽपि तस्या अस्तीत्यतिशयप्रतिपादनार्थोऽपिशब्द इति, स्थूणाप्रधानो वस्त्राच्छादितो मण्डपः स्थूणामण्डपः 'आहणह'त्ति निवेशयतेति भावः, 'लघुकरणे'त्यादि, लघुकरणं गमनादिका शीघ्रक्रिया दक्षत्वमित्यर्थः तेन युक्ता ये पुरुषास्तैोजितं-यत्रयूपादिभिः सम्बन्धितं यत्तत्तथा प्रवहणमिति सम्बन्धः, पाठान्तरेण 'लहुकरणजुत्तएहिंति तत्र लघुकरणेन-दक्षत्वेन युक्तौ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy