________________
ज्ञाताधर्म- कथाङ्गम्.
२ संघाटज्ञाते विशेषोपनयः
॥९
॥
तदर्थमेवेत्यर्थः 'जहा व से धण्णे'त्ति दृष्टान्तनिगमनं । इह पुनर्विशेषयोजनामिमामभिदधति बहुश्रुताः-इह राजगृहनगरस्था- नीयं मनुष्यक्षेत्रं धन्यसार्थवाहस्थानीयः साधुजीवः विजयचौरस्थानीयं शरीरं पुत्रस्थानीयो निरुपमनिरन्तरानन्दनिबन्धनलेन संयमो, भवति ह्यसत्प्रवृत्तिकशरीरात्संयमविघातः, आभरणस्थानीयाः शब्दादिविषयाः, तदर्थप्रवृत्तं हि शरीरं संयमविघाते प्रवर्तते, हडिबन्धस्थानीयं जीवशरीरयोरविभागेनावस्थानं राजस्थानीयः कर्मपरिणामः राजपुरुषस्थानीयाः कर्मभेदाः लघुखकापराधस्थानीया मनुष्यायुष्कबन्धहेतवः, मूत्रादिमलपरिस्थानीयाः प्रत्युपेक्षणादयो व्यापाराः, यतो भक्तादिदानाभावे यथासौ विजयः प्रश्रवणादिव्युत्सर्जनाय न प्रवर्तितवान् एवं शरीरमपि निरशनं प्रत्युपेक्षणादिषु न प्रवर्तत्ते, पान्थकस्थानीयो मुग्धसाधुः, सार्थवाहीस्थानीया आचार्याः, ते हि विवक्षितसाधुं भक्तादिभिः शरीरमुपष्टम्भयन्तं साध्वन्तरादुपश्रुत्योपालम्भयन्ति विवक्षितसाधुनैव निवेदिते वेदनावैयावृत्त्यादिके भोजनकारणे परितुष्यन्ति चेति, पठ्यते च "सिवसाहणेसु आहारविरहिओ जं न वट्टए देहो । तम्हा धण्णोच विजयं साहू तं तेण पोसेजा ॥" [शिवसाधनेषु आहारविरहितो यन्न प्रवर्त्तते देहः । तसात् धन्य इव विजयं साधुस्तत् तेन पोषयेत् ॥१॥] 'एवं खल्वि'त्यादि निगमन' इतिशब्दः समाप्तौ ब्रवीमीति पूर्ववदेवेति ॥ ज्ञाताधर्मकथायां विवरणतो द्वितीयमध्ययनं समाप्तमिति
॥२०॥
Jain EduA T
For Personal & Private Use Only
www.jainelibrary.org