SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म- कथाङ्गम्. ॥८५॥ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेटें जीवविप्पजढं पासंति २ हा हा अहो अकजमितिकट्ठ २ संघाटदेवदिन्नं दारगं भग्गकूवाओ उत्तारेंति २ धण्णस्स सत्थवाहस्स हत्थेणं दलयंति (सूत्रं ३८) | ज्ञाते देव दत्तापहारः डिम्भदारककुमारकाणामल्पबहुबहुतरकालकृतो विशेषः मूछितो-मूढो गतविवेकचैतन्य इत्यर्थः 'ग्रथितो' लोभतन्तुभिः सू. ३८ संदर्भितः 'गृद्ध' आकाङ्क्षावान् 'अभ्युपपन्नः' अधिकं तदेकाग्रतां गत इति, शीघ्रादीनि एकार्थिकानि शीघ्रतातिशयख्यापनार्थानि , निष्प्राणं-उच्छासादिरहितं निश्चेष्टं-व्यापाररहितं 'जीवविप्पजदंति आत्मना विप्रमुक्तं निश्चलो-गमनागमनादिवर्जितः निष्पन्दो हस्ताद्यवयवचलनरहितः तूष्णीको-वचनरहितः क्षेपयन्' प्रेरयन् 'श्रुति' वार्तामात्रं 'क्षुतं' तस्यैव संबन्धिनं शब्दं तच्चिकं वा 'प्रवृत्ति' व्यक्ततरवार्ता, नीतो मित्रादिना स्वगृहे अपहृतश्चौरेण आक्षिप्तः-उपलोभितः। 'परसुनियत्तेव'त्ति परशुना-कुठारेण निकृत्ता-छिन्नो यः स तथा तद्वत् 'नगरगोत्तिय'त्ति नगरस्य गुप्ति-रक्षां कुर्वन्तीति नगरगुप्तिका:-आरक्षकाः 'सन्नद्धबद्धवम्मियकवय'त्ति सन्नद्धाः-संहननीभिः कृतसन्नाहाः बद्धाः-कसाबन्धनेन वर्मिताश्च-अङ्गरक्षीकृताः शरीरारोपणेन कवचाःकङ्कटा यैस्ते तथा ततः कर्मधारयः, अथवा वर्मितशब्दः कचिन्नाधीयत एव, 'उप्पीलियसरासणपट्टिया' उत्पीडिताआक्रान्ता गुणेन शरासनं-धनुस्तल्लक्षणा पट्टिका यैस्ते तथा, अथवा उत्पीडिता-बद्धा शरासनपट्टिका-बाहुपट्टको यैस्ते तथा, दृश्यते च धनुर्धराणां बाहौ चर्मपट्टबन्ध इति, इह स्थाने यावत्करणादिदं दृश्यं "पिणद्धगेवेज्जा बद्धआविद्धविमलवरचिंधपट्टा" पिनद्धानि-परिहितानि |वेयकाणि-ग्रीवारक्षाणि यैस्ते तथा, बद्धो गाढीकरणेन आविद्धः-परिहितो मस्तके विमलो वरचितपट्टो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy