________________
त्वानां भयानको भवति, अपरस्त्वाह 'उराले 'त्ति उदारः - प्रधान: 'घोरि'त्ति घोरो निर्घृणः परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये खात्मनिरपेक्षं घोरमाहुः, तथा 'घोरखए 'त्ति घोराणि - अन्यैर्दुरनुचराणि व्रतानि - महाव्रतानि यस्य स तथा, घोरैस्तपोभिस्तपखी च, तथा घोरं च तद्ब्रह्मचर्य चाल्पसत्वैर्दुःखं यदनुचर्यते तस्मिन् घोरब्रह्मचर्ये वस्तुं शीलमस्येति घोरब्रह्मचर्यवासी 'उच्छूढशरीरे' 'उच्छूढं 'ति उज्झितमिवोज्झितं शरीरं येन स तत्सत्कारं प्रति निःस्पृहत्वात्, तथा 'संखित 'त्ति संक्षिप्ता शरीरान्तर्वर्त्तिनी विपुला अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या - विशिष्टतपोजन्य लब्धिविषयप्रभवा तेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्य:, तथा चतुर्दशपूर्वीति वेदप्रधान इत्येतस्यैव विशेषाभिधानं चतुर्ज्ञानोपगतः केवलवर्जज्ञानयुक्त इत्यर्थः, अनेन च ज्ञानप्रधान इत्येतस्य विशेषोऽभिहितः, पञ्चभिरनगारशतैः - साधुशतैः 'सार्द्ध' सह समन्तात्परिकरित इत्यर्थः, तथा 'पुवाणुपुधि' न्ति पूर्वानुपूर्व्या न पश्चानुपूर्व्या अनानुपूर्व्या वेत्यर्थः, क्रमेणेति हृदयं, 'चरन्' संचरन्, एतदेवाह - 'गामाणुगामं दूइज्जमाणे 'ति ग्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्- गच्छन् एकस्साग्रामादनन्तरं ग्राममनुल्लङ्घयन्तित्यर्थः, अनेनाप्यप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमाह, तथा 'सुहंसुहेणं विहरमाणे ति अत एव सुखसुखेन| शरीरखेदाभावेन संयमबाधाऽभावेन च विहरन् - स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन् 'जेणेव 'न्ति यस्मिन्नेव देशे चम्पा नगरी यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्यं 'तेणामेवे 'ति तस्मिन्नेव देशे उपागच्छति, कचिद्राजगृहे गुणसिलके इति दृश्यते, स चापपाठ इति मन्यते, उपागत्य च यथाप्रतिरूपं यथोचितं मुनिजनस्य अवग्रहम् - आवासमवगृह्य - अनुज्ञापनापूर्वकं गृहीला संयमेन तपसा चात्मानं भावयन् विहरति - आस्ते स्म ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org