SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. पेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः, एवं गुणप्रधानोऽपि, नवरं गुणाः-संयमगुणाः, एतेन च विशेषणद्वयेन तपःसंयमौ | चम्पाया पूर्वबद्धाभिनवयोः कर्मणोनिर्जरणानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयावुपदर्शितौ, गुणप्राधान्ये प्रपश्चार्थमेवाह-एवं करणे श्रीसुधर्मात्यादि, यथा गुणशब्देन प्रधानशब्दोत्तरपदेन तस्य विशेषणमुक्तमेवं करणादिभिरेकविंशत्या शब्दैरेकविंशतिविशेषणान्यध्येयानि, गमनं सू.४ तद्यथा-करणप्रधानश्चरणप्रधानो यावच्चरित्रप्रधानः, तत्र करणं-पिण्डविशुद्ध्यादिः, यदाह-"पिंडविसोही समिई भावणे"त्यादि, चरणं-महाव्रतादि, आह च-'वयसमणधम्मसंजमवेयावच्चं चेत्यादि, निग्रहः-अनाचारप्रवृत्तनिषेधनं निश्चयः-तत्त्वानां निर्णयः, विहितानुष्ठानेषु वाऽवश्यंकरणाभ्युपगमः आर्जवं-मायानिग्रहो मार्दवं-माननिग्रहो लाघवं-क्रियासु दक्षत्वं क्षान्ति:-क्रोधनिग्रहः गुप्तिमनोगुप्त्यादिका, मुक्तिनिर्लोभता, विद्याः-प्रज्ञप्त्यादिदेवताधिष्ठिता वर्णानुपूर्व्यः, मत्रा-हरिणेगमिष्यादिदेवताधिष्ठितास्ता एव अथवा विद्याः ससाधनाः साधनरहिता मन्त्रा ब्रह्म-ब्रह्मचर्य सर्वमेव वा कुशलानुष्ठानं वेदः-आगमो लौकिकलोकोत्तरकुप्रावचनिकभेदः नया-नैगमादयः सप्त प्रत्येकं शतविधाः नियमा-विचित्रा अभिग्रहविशेषाः सत्यं-वचनविशेषं शौचंद्रव्यतो निर्लेपता | भावतोऽनवद्यसमाचारता ज्ञानं-मत्यादि दर्शनं-चक्षुर्दर्शनादि सम्यक्त्वं वा चारित्रं-बाह्यं सदनुष्ठान, यच्चेह करणचरणग्रहणेऽपि आर्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थ, ननु जितक्रोधत्वादीनां आर्जवादीनां च को विशेषः, उच्यते, जितक्रोधादि विशेषणेषु तदुदयविफलीकरणमुक्तं मार्दवप्रधानादिषु तु उदयनिरोधः, अथवा यत एव जितक्रोधादिरत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावात् विशेषः, तथा ज्ञानसंपन्न इत्यादौ ज्ञानादिमत्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तु तद्वतां मध्ये तस्य प्राधान्य|मित्येवमन्यत्राप्यपौनरुक्त्यं भावनीयं, तथा 'ओराले'त्ति भीमो भयानकः, कथम् ?-अतिकष्टं तपः कुर्वन् पार्श्ववर्तिनामल्पस JainEducetimilarional For Personal & Private Use Only Sainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy