SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ चरित्रं च - अनुष्ठानं यस्य स तथा ततः कर्मधारयः, द्यूतप्रसङ्गी - द्यूतासक्तः एवमितराणि, नवरं भोज्यानि - खण्डखाद्यादीनि, पुनर्दारुणग्रहणं हृदयदारक इत्यस्य विशेषणार्थखान पुनरुक्तं, लोकानां हृदयानि दारयति-स्फोटयतीति हृदयदारकः, पाठान्तरेण 'जणहियाकारए' जनहितस्याकर्त्तेत्यर्थः, 'साहसिकः' अवितर्कितकारी 'सन्धिच्छेदकः' क्षेत्रखानकः 'उपधिको' मायित्वेन प्रच्छनचारी' विश्रम्भघाती' विश्वासघातकः आदीपकः - अग्निदाता तीर्थानि तीर्थभूतदेवद्रोण्यादीनि भिनत्ति - द्विधा करोति तद्रव्यमोषणाय तत्परिकर भेदनेनेति तीर्थभेदः, लघुभ्यां - क्रियासु दक्षाभ्यां हस्ताभ्यां संप्रयुक्तो यः स तथा ततः पदत्रयस्य कर्म्मधारयः परस्य द्रव्यहरणे नित्यमनुबद्धः प्रतिबद्ध इत्यर्थः, 'तीव्रवैरः' अनुबद्धविरोधः 'अतिगमनानि' प्रवेशमार्गान 'निर्ग मनानि' निस्सरणमार्गान् 'द्वाराणि' प्रतोल्य: 'अपरद्वाराणि' द्वारिकाः 'छिण्डी : ' छिण्डीका :- वृत्तिच्छिद्ररूपाः 'खण्डी : ' प्राकारच्छिद्ररूपाः नगरनिर्द्धमनानि - नगरजलनिर्गमक्षालान् 'संवर्तनानि' मार्गमिलनस्थानानि 'निवर्तनानि' मार्गनिर्घटनस्थानानि 'द्यूतखलकानि' द्यूतस्थण्डिलानि 'पानागाराणि' मद्यगेहानि 'वेश्यागाराणि' वेश्याभवनानि 'तस्करस्थानानि' | शून्यदेवकुलागारादीनि 'तस्करगृहाणि' तस्करनिवासान् शृङ्गाटकादीनि प्राग् व्याख्यातानि सभाः - जनोपवेशन स्थानानि प्रपा:जलस्थानानि, लिङ्गव्यत्ययश्च प्राकृतखात्, 'पणितशाला:' हट्टान् शून्यगृहाणि - प्रतीतानि 'आभोगयन्' पश्यन् 'मार्गयन' अन्वयधर्मपर्यालोचनतः 'गवेषयन्' व्यतिरेकधर्म्मपर्यालोचनतः बहुजनस्य 'छिद्रेषु' प्रविरलपरिवारत्वादिषु चौरप्रवेशावकाशेषु 'विषमेषु' तीव्ररोगादिजनितातुरत्वेषु 'विधुरेषु' इष्टजनवियोगेषु 'व्यसनेषु' राज्याद्युपप्लवेषु तथा 'अभ्युदयेषु' राज्यलक्ष्म्यादिलाभेषु 'उत्सवेषु' इन्द्रोत्सवादिषु 'प्रसवेषु' पुत्रादिजन्मसु 'तिथिषु' मदनत्रयोदश्यादिषु 'क्षणेषु' बहुलो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy