________________
यथा भवत्येवं भीमभैरवः - अतिभीष्मो रवप्रकारो यस्य स तथा तेन, मधुधाराया यत्पतितं - पतनं तेन सिक्त उद्धावमान:- प्रवर्द्धमानो धगधगायमानो - जाज्वल्यमानः स्पन्दोद्धतश्च - दह्यमानदारुस्पन्द प्रबलः पाठान्तरे शब्दोद्धतश्च यः स तथा तेन दीप्ततरो यः सस्फुलिङ्गश्च तेन, धूममालाकुलेनेति प्रतीतं, श्वापदशतान्तकरणेन तद्विनाशकारिणा ज्वालाभिरालोपितः - कृताच्छादनो निरुद्धश्चविवक्षितदिग्गमनेन निवारितो धूमजनितान्धकाराद्भीतश्च यः स तथा, आत्मानमेव पालयतीत्यात्मपालः, पाठान्तरेण ' आयवालोय'त्ति तत्र आतपालोकेन - हुतवहतापदर्शनेन महान्तौ तुम्बकितौ स्तब्धतया अरघट्टतुम्बाकृती ससंभ्रमौ कर्णौ यस्य स तथा, आकुश्चितस्थूलपीवरकरः भयवशेन भजन्ती दिश इति गम्यते दीप्ते नयने यस्य स तथा 'आकुंचियथोरपीवर कराभोयसवभयं तदित्तनयणो 'त्ति पाठान्तरं तत्राभोगो - विस्तरः सर्वा दिशो भजन्ती दीप्ते नयने यस्येति, वेगेन महामेघ इव वातेनोदितमहारूपः, किमित्याह-येन यस्यां दिशि कृतो विहितस्ते - खया पुरा - पूर्वं दवाग्निभयभीत हृदयेन अपगतानि तृणानि तेषामेव च प्रदेशामूलादयोऽवयवा वृक्षाश्च यस्मात्सोऽपगततृणप्रदेशवृक्षः, कोऽसौ ? - वृक्षोद्देशः- वृक्षप्रधानो भूमेरेकदेशो रूक्षोद्देशो वा, किमर्थं :दवाग्निसाणकारणार्थ- दवाग्निस त्राणहेतुरिदं भवत्वित्येतदर्थ, तथा येनैव - यस्यामेव दिशि मण्डलं तेनैव-तत्रैव प्रधारितवान् गमनाय कथं बहुभिर्हस्त्यादिभिः सार्द्धमित्ययमेको गमः । यत् पुनः 'तए णं तुमं मेहा ! अण्णया कयाई कमेण पंचसु' इत्यादि दृश्यते तद्मान्तरं मन्यामहे, तच्च एवं द्रष्टव्यं 'दुचंपि मंडलघायं करेसि जाव सुहंसुहणं विहरसि, तए णं तुमं मेहा ! अनया कयाह पंचसु उऊसु अइकंतेसु' इत्यादि, यावत् 'जेणेव मण्डले तेणेव पहारेत्थ गमणाए 'त्ति, सिंहादयः प्रतीताः नवरं वृका-वरुक्षाः द्वीपिका :- चित्रकाः अच्छत्ति - रिक्षाः तरच्छा - लोकप्रसिद्धाः परासरा :- शरभा शुगालविरालशु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org