SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 'कालधंमुण' ति काल:- मरणं स एव धर्मो - जीवपर्यायः कालधर्मः 'निवत्तियनामधेज्जो' इह यावत्करणेन यद्यपि समग्र : पूर्वोक्तो हरितवर्णकः सूचितस्तथापि श्वेततावर्णकवज्र्जो द्रष्टव्यः इह रक्तस्य तस्य वर्णितवादत एवाग्रे 'सत्तुस्सेहे' इत्यादिकमतिदेशं वक्ष्यति यत् पुनरिह दृश्यते 'सत्तंगे 'त्यादि तद्वचनान्तरं, वर्णकापेक्षं तु लिखितमिति । 'लेसाही 'त्यादि तेजोलेश्याद्यन्यतरलेश्यां प्राप्तस्येत्यर्थः अध्यवसानं मानसी परिणतिः परिणामो जीवपरिणतिः, जातिस्मरणावरणीयानि कर्माणि - | मतिज्ञानावरणीयभेदाः क्षयोपशमः - उदितानां क्षयोऽनुदितानां विष्कम्भितोदयखं ईहा - सदर्थाभिमुखो वितर्क इत्यादि प्राग्वत्, संज्ञिनः पूर्वजातिः - प्राक्तनं जन्म तस्या यत् स्मरणं तत्संज्ञिपूर्वजातिस्मरणं व्यस्तनिर्देशे तु संज्ञी पूर्वो भवो यत्र तत्संज्ञिपूर्वं संज्ञीति च विशेषणं स्वरूपज्ञापनार्थं, न ह्यसंज्ञिनो जातिविषयं स्मरणमुत्पद्यत इति, 'अभिसमेसि' त्ति अवबुध्यसे प्रत्यपराह्नः - अपराह्नः, 'तए ण' मित्यादिको ग्रन्थो जातिस्मरण विशेषणमाश्रित्य वर्णितः, 'दवग्गिजायकारणट्ट' त्ति दवाग्नेः संजातस्य कारणस्य - भयहेतोर्निवृत्तये इदं दवाग्निसंजातकारणार्थ, अर्थशब्दस्य निवृत्त्यर्थखात्, कचित् 'दवग्गिसंताणकारणद्वत्ति दृश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येयं, 'मंडलं घाएसि' वृक्षाद्युपघातेन तत्करोतीत्यर्थः 'खुवेतयति व'ति क्षुवोइखशिखः शाखी 'आहुणिय'त्ति २ प्रकम्प्य चलयिवेत्यर्थः, 'उट्ठवेसित्ति उद्धरसि 'एडेसित्ति छईयसि, 'दोचंपि' द्वितीयं तस्यैव मण्डलस्य घातं, एवं तृतीयमिति, नलिनीवनविवधनकरे, इह विवधनं विनाशः, 'हेमंते 'ति शीतकाले कुन्दा: - पुष्पजातीयविशेषाः लोध्राश्र - वृक्षविशेषास्ते च शीतकाले पुष्प्यन्त्यतस्ते उद्धताः - पुष्पसमृद्ध्या उद्धुरा इव यत्र स तथा, तथा तुषारं - हिमं तत् प्रचुरं यत्र स तथा ततः कर्मधारयः ततस्तत्र, ग्रीष्मे - उष्णकाले विवर्तमानो - विचरन् वनेषु वन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy