________________
हृतं - शब्दितं येषु ते तथा, विद्रुमाणीव - प्रवालानीव लोहितानि अग्नियोगात्पल्लव योगाद्वा अग्राणि येषां ते विद्रुमाग्रास्ततः पदद्वयस्य २ कर्म्मधारयः, ततस्तेषु द्रुमाग्रेषु वृक्षोत्तमेषु सत्सु, वाचनान्तरे खरपरुषरिष्ठव्याहृतानि विविधानि द्रुमाग्राणि येषु ते खरपरुषरिष्ठव्याहृत विविधद्रुमाग्रास्तेषु वनान्तेष्विति तथा तृष्णावशेन मुक्तपक्षाः श्लथीकृतपक्षाः प्रकटितजिहातालुका: असंपुटित| तुण्डाश्च - असंवृतमुखाः ये पक्षिसङ्घास्ते तथा तेषु 'ससंतेसु 'ति श्वसत्सु - श्वासं मुश्चत्सु, तथा ग्रीष्मस्य ऊष्मा च - उष्णता उष्णपातश्च - रविकरसन्तापः खरपरुषचण्डमारुतश्च - अतिकर्कशप्रबलवातः शुष्कतृणपत्रकचवरप्रधानवातोली चेति द्वन्द्व : ताभिर्भमन्तः - अनवस्थिता दृप्ताः संभ्रांत ये श्वापदा: - सिंहादयः तैराकुला ये ते तथा, मृगतृष्णा-मरीचिका तल्लक्षणो बद्धः चिह्नपट्टो येषु ते तथा ततः पदद्वयस्य कर्म्मधारयोऽतस्तेषु सत्सु, गिरिवरेषु पर्वतराजेषु, तथा संवर्तकितेषु - संजातसंवर्तकेषु त्रस्ता - भीता ये मृगाच प्रसयाव - आटव्यचतुष्पदविशेषाः सरीसृपाश्च - गोधादयस्तेषु ततश्वासौ हस्ती अवदारितवदनविवरो निर्लालिताग्रजिद्दश्च य इति कर्मधारयः 'महंत तुंबइयपुण्णकण्णे' महान्तौ तुम्बकितौ - भयादरघट्टतुम्बा कारौ कृतौ स्तब्धावित्यर्थः, पुण्यौ - व्याकुलतया शब्दग्रहणे प्रवणौ कर्णौ यस्य स तथा संकुचितः 'थोर'त्ति स्थूलः पीवरो - महान् करो यस्य स तथा उच्छ्रितलाङ्गुलः 'पीणाइय'त्ति पीनाया - मड्डा तथा निर्वृत्तं पैनायिकं तद्विधं यद्विरसं रटितं तल्लक्षणेन शब्देन स्फोटयन्निवाम्बरतलं पाददर्दरेणपादघातेन कम्पयन्निव 'मेदिनीतल' मित्यादि, कण्ठ्यं 'दिसो दि सिं'ति दिक्षु चापदिक्षु च विपलायितवान्, आतुरो-व्याकुल: 'जंजिए' ति बुभुक्षितः दुर्बलः - क्लान्तो ग्लानः नष्टश्रुतिको - मूढदिकः 'परभाहए'ति पराभ्याहतो बाधितो भीतो - जातभयः त्रस्तोजातक्षोभः 'तसिए' त्ति शुष्क आनन्दरसशोषात् उद्विद्मः - कथमितोऽनर्थान्मोक्ष्येऽहमित्यध्यवसायवान्, किमुक्तं भवति : -संजात
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org