________________
ज्ञाताधर्म
कथाङ्गम्.
॥ ६६ ॥
'हाइ' हे मेघ इति, एवमभिलाप्य महावीरस्तमवादीत् । ' से णूण' मित्यादि, अथ नूनं निश्चितं मेघ ! अस्ति एषोऽर्थः ९, 'हंते 'ति कोमलामन्त्रणे अस्त्येपोऽर्थ इति मेघेनोत्तरमदायि, वनचरकैः -शबरादिभिः, 'संखे' त्यादि विशेषणं प्रागिव सत्तुस्सेहे - सप्तहस्तोच्छ्रितः, नवायतो- नवहस्तायतः, एवं दशहस्तप्रमाणः मध्यभागे सप्ताङ्गानि - पादकरपुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा समः - अविषमगात्रः सुसंस्थितो - विशिष्टसंस्थानः पाठान्तरेण सौम्यसम्मितः तत्र सोम्यः - अरौद्राकारो नीरोगो वा सम्मितः - प्रमाणोपेताङ्गः, पुरतः - अग्रतः उदग्रः - उच्चः समुच्छ्रितशिराः शुभानि सुखानि वा आसनानि - स्कन्धादीनि यस्य स तथा पृष्ठतः - पथाद्भागे वराह इव- शूकर इव वराहः अवनतखात्, अजिकाया इवोन्नतत्वात् कुक्षी यस्य स तथा, अच्छिद्रकुक्षी मांसलत्वात् अलम्बकुक्षिरपलक्षणवियोगात् पलम्बलंबोयराहरकरे - चि- प्रलम्बं च लम्बौ च क्रमेणोदरं च जठरमधरकरौ च - ओष्ठहस्तौ यस्य स तथा, पाठान्तरे [प्र]लम्बौ लम्बोदरस्येव - गणपतेरिव अधरकरों यस्य स तथा, धनुःपृष्ठाकृति - आरोपितज्यधनुराकारं विशिष्टं प्रधानं पृष्ठं यस्य स तथा, आलीनानिसुश्लिष्टानि प्रमाणयुक्तानि वर्त्तितानि - वृत्तानि पीवराणि - उपचितानि गात्राणि - अङ्गानि अपराणि - वर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य स तथा, अथवा आलीनादिविशेषणं गात्रं - उरः अपरश्च - पश्चाद्भागो यस्य स तथा वाचनान्तरे विशेषद्वयमिदं - अभ्युद्गता - उन्नता मुकुलमल्लिके व कोरकावस्थविचकिलकुसुमवद्धवलाश्व दन्ता यस्य सोऽभ्युद्गतमुकुल मल्लिकाधवलदन्तः आनामितं यच्चापं - धनुस्तस्येव ललितं- विलासो यस्याः सा तथा सा च संवेल्लिता च संवेल्लन्ती सङ्कोचिता वा अग्रसुण्डा - सुण्डाग्रं यस्य स आनामितचापललितसंवेल्लिताग्रसुण्डः, आलीनप्रमाणयुक्तपुच्छः प्रतिपूर्णाः सुचारवः कूर्म्मवच्चरणा यस्य स
Jain Education International
For Personal & Private Use Only
१ उत्क्षिप्तज्ञाते मेघपूर्वभवोदितिः सू.
२७
॥६६॥
www.jainelibrary.org